2023-02-20 00:55:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः 1
संधानं गम्यते । तस्मादनित्यः शब्दः इत्यनेन अनित्य एव शब्दः इति
प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते
परेषां स्वनिश्चितार्थप्रतिपादनं
। तस्मात् पञ्चावयवेन वाक्येन
क्रियते इति चैतत्परामर्शनमनुमानं
सिद्धम् ( प्रशस्त ० २ पृ० ३१ ) इति । अधिकं च निगमनशब्दार्थे
दृश्यम् । २ धर्मशास्त्रज्ञास्तु प्रतिनिधित्वेन विधीयमानः पदार्थः प्रत्या-
नायः । यथा दानार्थं साक्षाद्गोरलामे गोप्रत्याम्नायः सुवर्णम् इत्याहुः ।
-
प्रस्यासत्तिः - १ संबन्धः । यथा मानसस्थले तु ज्ञानप्रकारीभूतं सामान्यं
प्रत्यासत्तिः सामान्यं येन संबन्धेन ज्ञायते तेन संबन्धेनाधिकरणानां
प्रत्यासत्तिः सामान्यविषयकं ज्ञानं प्रत्यासत्तिः (मु० १पृ० १२९-१३०)
इत्यादौ प्रत्यासत्तिः संबन्धः । यथा वा व्याकरणशास्त्रे हस्तादाने चेर-
स्तेये (पा० सू० ३।३।४० ) इति सूत्रव्याख्याने हस्तादान इत्यनेन
प्रत्यासत्तिरादेयस्य लक्ष्यते ( सि० कौ० पृ० ३४२ ) इत्यत्र प्रत्यासत्तिः
संबन्धः । २ नैकट्यम् इति व्यवहारशास्त्रज्ञा आहुः ।
प्रत्यासनत्वम् - १ संबद्धत्वम् । यथा समवायिकारणे प्रत्यासन्नं कारणम्
असमवाधिकारणम् ( त० कौ० ) इत्यादौ । २ तद्विषयकप्रतीत्य-
व्यवहितप्राक्कालिकप्रतिपत्तिविषयत्वम् । ३ समीपवृत्तित्वम् इति काव्यज्ञा
वदन्ति । ४ धर्मशास्त्रे प्रत्यासन्नत्वं तु तदभावे यः प्रत्यासन्नः सपिण्ड:
इत्यादौ कुलगोत्रादिकृतः संनिकर्षः इति स्वीकृतम् ।
-
मिन्द्रियाणां
प्रत्याहार : - १ [ क] बहिरिन्द्रियाणां स्वस्वविषय वै मुख्येनावस्थानम्
( योगाङ्ग विशेषः ) ( गौ० वृ० ४ । २।४४ ) । [ ख ] चक्षुरादीना-
प्रतिनियतरञ्जनीयकोपनीयमोहनीय प्रषण्णत्व प्रहाणेनाविकृत-
स्वरूपप्रवणचित्तानुकार: प्रत्याहारः ( सर्व • सं० पृ० ३८१
पात ० ) । २ प्राणायामद्विषट्रेन प्रत्याहार उदाहृतः इत्यपि वदन्ति
( काशीख० ४१ ) । ३ वैयाकरणास्तु आदिरन्त्येन सहेता (पा० सू०
१।१ । ७१ ) इत्यनेन कृता संज्ञा । यथा अण् इति भइउवर्णानां संज्ञा
इण्णाहु: । ४ उपादानम् इति काव्यता आहुः ।