2023-02-20 00:55:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
कादेष्टाबादेव तद्धितत्वानुपगमे पञ्चविधो वा प्रत्ययः इति ( श० प्र०
लो० ५९ टी० पृ० ७२ ) ।
प्रत्यर्थी -[क] अर्ध्यत इत्यर्थः साध्यः । सोस्यास्तीत्यर्थी । तत्प्रतिपक्षः
प्रत्यर्थी ( मिताक्षरा अ० २ श्लो० ६ ) । ख ] साध्यार्थस्य प्रतिपक्ष-
बादी तदभाववादी च ( मिताक्षरा अ० २ श्लो० ८०) ।
—
-
प्रत्यवस्कन्दनम् – अर्थिना लिखितो योर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य
कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥ ( मिताक्षरा अ० २ श्लो० ७ )।
प्रत्यवस्थानम् - १ उपालम्भः प्रतिषेधः (वात्स्या० ११२११८) । २ दूष-
णाभिधानम् ( गौ० वृ० ११२११८) । यथा साधर्म्यवैधर्म्याभ्यां
प्रत्यवस्थानं जाति: (गौ० ११२११८) इत्यादौ । ३ प्रतिपक्षतया
अवस्थानम् इत्यपि केचिदाहुः ।
प्रत्यवायः - १ अधर्मवदस्यार्थोनुसंधेयः । यथा अनुत्पत्ति तथा चान्ये
प्रत्यवायस्य मन्वते ( जाबालि: ) इत्यादौ । २ विपरीताचरणम् ।
( मनु० टी० कुल्लूक० ४।२४५ ) ।
०
-
प्रत्याम्नायः -१ [क] निगमनवदस्यार्थोनुसंधेयः ( प्रशस्त० पृ० २८ ) ।
[ ख ] प्रतिज्ञाया: पुनर्वचनम् । अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां
हेत्वादिभिरवयवैराहित शक्तीनां परिसमाप्तेन वाक्येन पुनर्निश्चयापादनार्थ
प्रतिज्ञायाः पुनर्वचनम् । यथा तस्माद्रव्यमेव इति पुनर्निश्चयापादनार्थं
प्रव्याम्नाय: ( प्रशस्त ० २ पृ० २९ - ३१) । अत्रार्थस्यैव परिसमाप्तिः ।
कथम् । अनित्यः शब्दः इत्यनेनानिश्चितानित्यत्व मात्र विशिष्टः शब्दः
कथ्यते । प्रयत्नानन्तरीयकत्वात् इत्यनेन साध्यसमधर्ममात्रमभिधीयते ।
इह यत् प्रयत्नानन्तरीयकम् तत् अनित्यं दृष्टम् यथा घटः इत्यनेन
साभ्यसामान्येन साधनसामान्यस्यानुगममात्रमुच्यते । नित्यमप्रयत्नानन्त
रीयकं दृष्टम् यथा आकाशम् इत्यनेन साध्याभावेन साधनस्यासस्वं
प्रदर्श्यते । तथा च प्रयत्नानन्तरीयकः शब्दः न च तथा आकाश-
वदप्रयत्नानन्तरीयकः शब्दः इत्यन्वयव्यतिरेकाम्यां दृष्टसामर्थ्यस्य शब्देनु-
६९ न्या० को०