2023-02-20 00:55:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोश: ।
प्रकृतिनिपाताम्यां भिन्नो यादृशार्थे शक्तिनिरूढलक्षणान्यतरात्मकप्रशस्त-
वृत्तिमान् यादृशः शब्दः स तादृशार्थकप्रत्ययः । यथा एकत्वार्थकाः
सुबादयः प्रत्ययाः । शक्त्या निरूढलक्षणया च गुणगुणिनोः स्थिति-
प्रस्थानयोश्ध बोधका अपि शुक्लस्थाप्रभृतयः प्रकृतिभ्यो न भिन्नाः
तथा शक्त्या समुच्चयादिप्रतिपादका अपि चादयो न निपातेभ्यः भिन्नाः
इति तत्र नातिव्याप्तिः ( श० प्र० श्लो० ८ टी० पृ० १० ) । [ख]
यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि तिर्थस्यान्वयबोधने
स्वरूपायोग्यः स वानिभादिशब्देभ्यो भिन्नस्तादृशार्थे प्रत्ययः । यथा
पचतीत्यादौ तिङाम् पाचकोस्तीत्यादौ कृताम् काश्यपिरित्यादौ च
तद्धितानाम् प्रकृत्यर्थावच्छिन्न एष स्वार्थे कृत्यादौ तिर्थस्य वर्तमानत्वा-
देर्बोधकत्वम् न तु तदनवच्छिन्ने इति न तेष्वप्रसङ्गः (अव्याप्तिः ) ।
चैत्रोस्तीत्या दाबर्थान्तरानवच्छिन्ने स्वार्थे नाम्नां तिङर्थान्वयबोधकत्वम् ।
एबम् यजेत स्थीयेत इत्यादौ यजादिधातूनाम् तिर्थान्वयबोधकत्वम् इति
तत्र नातिव्याप्तिः । निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने सदृशसमु-
यदिखार्थे तिर्थस्यान्वयं प्रति स्वरूपायोग्योपि निभादिरेव न तु तद्भिन्नः
इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ९ टी० पृ० १२ ) । [ग]
स्व स्वप्रकृति एतदन्यतरार्थप्रत्यायको यः स प्रत्ययः इति नागोजीभट्टादयः
आहुः । अयं भावः । बहुजादेर्निरर्थकतया मुख्य प्रत्ययत्वाभावादेव
पूर्वस्वरूपावधित्वनिवेशेपि न दोषः । अत एवोतं हरिणा यः स्वेतरस्य
यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ॥
इति ( वाक्यप० ) । परत्वेन विधीयमानत्वमेव प्रत्ययत्वमिति केचि-
च्छाब्दिका वदन्ति । तन्न योग्यम् । बहुजादावव्याप्तिप्रसङ्गात् इति
शब्दशक्तिप्रकाशिकाकृत आहुः । [घ ] अन्ये तु शाब्दिकाः प्रकृति-
मवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेष: इत्याहु: ( शब्दार्थ-
रख० ) ( वाच० ) । अत्र महाभाष्यम् स्वीयमर्थे प्रत्याययति इति ।
अत्रावविश्व पूर्वापररूपो प्रायः । तेन बहुचि बहुगुडो द्राक्षा इत्यादौ
माप्रसङ्गः । प्रत्ययश्चतुर्विधः । विभक्तिः धात्वंशः तद्धितः कृत् इति ।
-