2023-02-20 00:55:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
५४३
प्रत्यभिज्ञा – ( प्रत्यक्षम् ) [ क ] अतीताषस्थावच्छिन्नवस्तुग्रहणम् । प्रत्य-
भिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था स्फुरत्येव ( त० मा० प्रमाण ०
शब्द० पृ० १९) । प्रत्यभिज्ञाशब्दस्येत्थं व्युत्पत्तिः । प्रतिगता अमि-
ज्ञाम् इति प्रत्यभिज्ञा ( वाच० ) । तल्लक्षणं तु इन्द्रियसहकृतसंस्कार-
जन्यज्ञानत्वम् ( ल० व० ) ( न्या०सि० दी० पृ० ५९ ) । प्रत्य-
भिज्ञायामुपनीततत्ता दिविषयकत्वरूपमुपनीतभानमानुभाविकम् इति बोध्यम्
( दीधि० बाघ ० ) । प्रत्यभिज्ञायामात्मा विषयः इति सिद्धान्तः । माया-
वादिनस्तु अन्तःकरण विशिष्ट एवात्मा प्रत्यभिज्ञाविषयः न तु केवल-
श्चिदात्मा इत्याहुः । अत्र प्राभाकराः सोहम् इति प्रत्यभिज्ञायां विषय-
त्वेनाश्रयो नात्मा सिध्यति । किं तर्हि सोयं घटः इत्यादिप्रत्यभिज्ञा-
श्रयत्वेन इत्यमन्यन्त ( विवरणप्रमेयसंग्रहे ) ( वाच ० ) । [ ख ] अती-
तावस्थावच्छिन्नस्य वर्तमानभेदावगाहि प्रत्यक्षम् (१०० ) । सा
च यथा स एवायं घटः यो मया पूर्वमुपलब्धः इत्याकारिका
पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रियप्रभवा प्रत्यभिज्ञा ( त० भा०
हेत्वाभा० पृ० ५० ) । यथा वा स एवायं चैत्रः इति प्रतिसंधानेना-
भिमुखीभूते वस्तुनि ज्ञानम् ( सर्व० पृ० १९३ प्रत्यभि० ) । अत्र
तद्देश कालवृत्तित्वरूपतत्तासंस्कारात् स एवायं घटः इति प्रत्यभिज्ञा
जायते इति बोध्यम् ( नील० १ पृ० १४ ) । [ग] तदनुगृहीत-
स्तदनुसंधानविषयः प्रत्ययस्तद्भावविषयः प्रत्यभिज्ञानम् ( न्या० वा० ) ।
प्रत्यभिज्ञाशास्त्रम् सूत्रं वृत्तिर्विवृतिर्लध्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरण-
-
विवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ (सर्व० सं० पृ० १९९ प्रत्य० ) ।
प्रत्ययः – १ बुद्धिदस्यार्थोनुसंधेयः । सांख्यास्तु स्रक्चन्दनादिविषय-
संनिकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखायाकारो बुद्धेरेव यः परिणाम-
विशेष: ( महत्तत्त्वधर्मः ) स प्रत्ययः इत्याहुः (वै० उ० ८।१।१ ) ।
२ अधीनः । ३ शपथः । ४ विश्वासः । ५ निश्चयः । ६ हेतुः ।
७ छिद्रम् । ८ आचारः । ९ ख्यातिः । १० स्वादु । ११ सहकारि
कारणम् ( वाच ० ) । १२ ( सार्थकः शब्दः ) [ क ] यादृशार्थक-