2023-02-20 00:55:52 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
कल्पकज्ञानद्वारा करणम् । तथाहि । यदा निर्विकल्पकज्ञानानन्तरं सवि-
कल्पकज्ञानमुत्पद्यते तदा इन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्पक-
ज्ञानमवान्तरव्यापारः । सविकल्पकं ज्ञानं फलम् इति ( त० भा०
प्रमाण० पृ० ६ ) । तृतीयं च निर्विकल्पकज्ञानम् । तच्च सविकल्पक-
ज्ञानानन्तरं यत्र हानोपादानोपेक्षाबुद्धयो भवन्ति तत्र सविकल्पकज्ञानं
द्वारीकृत्य करणम् ( सि० च० १ पृ० २१ ) । तथाहि । यदा सवि-
कल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं
ज्ञानं करणम् । सविकल्पकज्ञानमवान्तरव्यापारः । हानादिबुद्धयः फलम्
( त० मा० प्रमाण ० पृ० ६) इति । अत्राहुः । सर्वत्रापि द्रव्यगुणकर्मा-
दिप्रत्यक्षे इन्द्रियमेव करणम् । विषयेन्द्रियसंयोगः इन्द्रियमनःसंयोगो बा
व्यापारः । द्रव्यगुणकर्मादिप्रत्यक्षं फलम् इति । तत्र षडिषद्रव्यप्रत्यक्षे
त्वय्मनःसंयोगो महत्त्वं च कारणम् । तत्र द्रव्यचाक्षुषप्रत्यक्षे तु महत्त्वम्
अनेकद्रव्यत्वम् उद्भूतरूपम् प्रकाशश्च कारणम् ( प्रशस्त गु०
पृ० २५ ) । अत्र च येनेन्द्रियेण यद्वस्तु गृह्यते तेनेन्द्रियेण तद्गतं
सामान्यं तत्समवायस्तदभावश्च गृह्यते इति नियमो ग्राह्यः ( प्र० प्र० ) ।
तत्रेन्द्रियात्मकं प्रत्यक्षं द्वेधा । द्रव्यग्राहकम् द्रव्याप्राहकं च । आद्यम्
चक्षुस्त्वय्मनांसि । द्वितीयम् प्राणम् रसनम् श्रवणम् इति ( न्या० म० १
पृ० ५ ) । यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानम् तत् प्रत्यक्षम्
इति सांख्या आहुः ( सांख्य० सू० ११८९ ) । ३ प्रत्यक्षात्मकज्ञान-
विषयः । यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद्धटवत् ( त० दी० १
पृ० ९ ) इत्यादौ । अत्र प्रत्यक्ष इत्यस्य बहिरिन्द्रियजन्य प्रत्यक्षविषयः
इत्यर्थः ( नील० १ वायुनि० पृ० ९) । मायावादिमते अत्रव्य-
प्रत्यक्षलक्षणं च स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्व-
शून्यत्वे सति वर्तमानयोग्यत्वम् ( वेदा०प० परि० १ पृ० १४ ) ।
५४२
प्रत्यनुमानम् – प्रतिपक्षानुमानम् । यथा पर्वतो वह्निमान् धूमात् इति
वादिनोक्ते पर्वतो वहयभाववान् पाषाणमयत्वात् इति प्रतिवादिनः
प्रतीपानुमानम् ।