2023-02-20 00:55:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोचर ।
प० १ पृ० १२ ) । न्यायमतसिद्धं प्रत्यक्षं द्विविधम् । नित्यम् अनित्यं
च तत्र नित्यं भगवतः । अनित्यं जीवस्य । अनित्यं प्रत्यक्षं द्विविधम् ।
लौकिकम् अलौकिकं च । तत्र लौकिकं प्रत्यक्षं द्विविधम् । सविकल्प-
कम् निर्विकल्पकं च । अत्रोच्यते । अपरोक्षप्रमाव्याप्तं प्रत्यक्षं द्विविधं
मतम् । सविकल्पकमित्येकमपरं निर्विकल्पकम् ॥ इति ( ता० २०
श्लोक० ११ १२) । प्रकारान्तरेण लौकिकं प्रत्यक्षं षड़िधम् ।
घ्राणजम् रासनम् चाक्षुषम् स्पार्शनम् श्रौत्रम् मानसं चेति ( न्या० म० १
पृ० ३ ) (भा० प० श्लो० ५३ ) ( त० सं० ) ( त०] भा० ० ६)
( त० कौ० पृ० ८ ) । अलौकिकं तु त्रिविधम् । सामान्यलक्ष-
णम् ज्ञानलक्षणम् योगजं च । त्रिविधमपीदं प्रत्यक्षं सविकल्पकमेव
( त० व० ) ( मु० १ परि० ३ ) । २ ( प्रमाणम् ) [ क ] साक्षा-
त्काररूपप्रमाकरणम् ( न्या० म० १ पृ० २) । अत्रार्थे प्रतिगतमक्षं
प्रत्यक्षम् इति व्युत्पत्तिः ( गौ० वृ० १ । १२ । ४ ) ( न्या० वा० १ पृ०
३०) । अथवा अक्षस्याक्षस्य प्रतिविषयं वृत्तिः । वृत्तिस्तु संनिकर्षो ज्ञानं
वा । यदा संनिकर्षस्तदा ज्ञानं प्रमितिः । यदा ज्ञानं तदा हानोपादानो-
पेक्षाबुद्धयः फलम् ( वात्स्या ० १ । १ । ३ ) । [ख ] साक्षात्कारिप्रमा-
करणम् ( त० भा० पृ० ५ ) । [ग] प्रत्यक्षप्रमायोगव्यवच्छिन्नं
प्रत्यक्षप्रमाणम् । ( अयोगव्यवच्छिन्न मिति पदच्छेदः ) । तच्च ईश्वरघ्राण-
रसन चक्षुः स्पर्शनश्रोत्रमनोलक्षणम्। [घ ] प्रत्यक्षज्ञानकरणम् ( त० सं० ) ।
इदं च प्रमाणतदाभाससाधारणं लक्षणमपि स्यात् इति भाति । तच्च
करणं त्रिविधम् । कचित् इन्द्रियम् कचित् इन्द्रियार्थर्सनिकर्षः कचित्
ज्ञानं च । तत्राद्यम् निर्विकल्पकज्ञाने करणम् । तथाहि यदार्थसंनिकृष्टे-
नेन्द्रियेण निर्विकल्पकात्मकं ज्ञानं फलमुस्पद्यते तस्य ज्ञानस्येन्द्रियं
करणम् । छिदाया इव परशु: । इन्द्रियार्थसंनिकर्षो व्यापारः । छिदा-
करणस्य परशोरिष दारुसंयोगः । निर्विकल्पकज्ञानं फलम् । परशोरिव
छिदा । अत्र कश्चिदाह सविकल्पकादीनामपीन्द्रियं करणम् । यावन्ति
त्वान्तरालिकानि संनिकर्षादीनि तानि सर्वाण्यवान्तरव्यापाराः इति
( त० मा० प्रमाणनि० पृ० ६ ) । द्वितीयम् सविकल्पकज्ञाने निर्वि-