2023-02-20 00:55:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
(चि० १ ) ( न्या० बो० १ पृ० ११) (मु० २ । ३५० १०९ ) अ
ज्ञानकरणकत्वाव्यभिचारिजातिशून्यज्ञानत्वम् इति विवक्षितोर्थः ( दि०
१/३ पृ० १०३ ) । इदं च जीवेश्वरोभयप्रत्यक्षसाधारणं लक्षणम् इति
विज्ञेयम् ( न्या० बो० १ पृ० ११) । तथा च ईश्वरप्रत्यक्षस्य
निसत्वेन न किंचिदपि करणमस्ति । जीवप्रत्यक्षस्य चेन्द्रियमेव कर-
णम् न किंचिदपि ज्ञानं करणम् । एवं चोभयोः प्रत्यक्षयोर्ज्ञानाकरण-
कत्वमक्षुण्णमेव इति लक्षणसमन्वयः । [ ग] साक्षात्कारत्वव्यञ्जक-
विषयता विशेषवज्ञानम् ( ग० सप्र० ) । अत्र साक्षात्कारत्वं च साक्षा-
स्करोमि इत्यनुव्यवसायसाक्षिको जातिविशेषः । अथवा जन्यधीजन्य-
मात्रवृत्तिर्मानसावृत्तिर्या जाति: तच्छ्रन्यज्ञानत्वम् ( न्या० म० १ २
१० ३ ) ( म० प्र० पृ० ९ ) । भवति हि जन्यं ज्ञानम् ( व्याप्तिज्ञानम्
अतिदेशवाक्यार्थज्ञानम् पदज्ञानादि ) । तज्जन्यम् अनुमित्युपमितिशाब्द-
बोधादि । तन्मात्रवृत्तिर्मानसावृत्तिश्च या जातिः अनुमितित्वोपमितित्वशा-
ब्दबोधत्वादिः तच्छ्रन्यत्वं साक्षात्कारे वर्तते इति लक्षणसंगतिः ( त० प्र० १
पृ० १५ ) । अत्र पदप्रयोजनादिकं च तर्कप्रकाशे सविस्तरं कथितम् ।
तब विस्तरभयानात्र संगृहीतम् । [घ ] प्रतिविषयाभ्यासः प्रत्यक्षम्
इति सांख्या: आहुः । [ ङ ] साक्षाद्धीः इति प्राभाकरा आहुः
(चि० १) । साक्षात्वं च साक्षात्करोमि इत्यनुव्यवसायगम्यो जाति-
विशेष: (चि० १ ) ( न्या० म० १ पृ० २ ) । न्यायमते साक्षात्त्वं
च जातिविशेषः एव । प्राभाकरमते तु साक्षात्त्वं न जातिः । नियत-
व्यजकाभावादिति ( चि० १ पृ० ५५६) । [च ] यत्किंचिदर्थस्य
साक्षात्कारिज्ञानमिति बौद्धा माहुः (न्या०बि० १ पृ० ७ ) । [ छ ]
वैशिध्यानवगाहिज्ञानं प्रत्यक्षम् इति नास्तिका आहुः । [ज ] अन्त:-
करणवृत्पवच्छिन्नचैतम्येन विषयस्फुरणम् प्रत्यक्षम् इति मायावादिनो
मम्यन्ते । भत्रोच्यते । बुद्धितरस्थचिदाभासौ द्वावपि व्यामुतो घटम् । सत्रा-
ज्ञानं धिया नश्येदाभासेन घठः स्फुरेत् ॥ इति (पञ्चद० ७ । ९१ ) । माया-
वादिमते प्रत्यक्षलक्षणं च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्न चैतन्या-
भिन्नत्वं तत्तदा कारवृत्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ( वेदा० परि०