2023-02-20 00:55:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
प्रतिवादः - वादिप्रयुक्तन्यायवाक्यविरुद्धन्यायवाक्यप्रयोगः । यथा अनेन
चौर्य कृतम् लोपत्रग्रहणकारणात् इत्यादिवाक्ये वादिना प्रयुक्ते तन्न
कृतम् तद्विपरीतकारणात् इति प्रतिबादिप्रयोगः प्रतिवादः ।
प्रतिवादी -[क] वादिप्रयुक्तन्यायवाक्यविरुद्धन्यायवाक्यप्रयोगकर्ता । यथा
पर्वते बह्विसिद्धये वादिना पर्वतो वह्निमान् घूमवत्त्वात् इत्यादिन्यायवाक्ये
प्रयुक्ते तद्विरोधेन पर्वतो न वह्निमान् पाषाणमयत्वात् इत्यादि विरुद्ध-
वाक्यं येन प्रयुज्यते सः । [ ख ] अर्थिप्रतिपक्षः । [ग] प्रत्यर्थी च
इति व्यवहारशास्त्रज्ञा आहुः ( मिता० अ० २ श्लो० ६ ) ।
प्रतिविधानम् – १ कृषिशब्दे दृश्यम् । २ प्रतीकारः । ३ प्रकृतस्योप-
पादनाद्यर्थमुपायाबलम्बनम् ( वाच० ) ।
प्रतिश्रवणम् –– १ देयत्वेनाभ्युपगमः । यथा गुरवे गां प्रतिशृणोति आशृणो-
तीत्यादौ धात्वर्थः । अत्र धात्वर्थे गोर्विशेष्यत्वेन तदेकदेशे च दाने गुरो-
रुद्देश्यत्वेन अन्वयः । तेन गुरूदेश्यकदानकर्मत्वेन गामभ्युपगच्छति
इत्येवं तत्र बोध: ( श० प्र० श्लो० ६९ टी० पृ० ८६-८७)।
२ प्रतिशब्दः इति काव्यज्ञा आहुः ।
प्रतिषेधः - १ [ क ] प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः ( म० प्र० ४
पृ० ४८ ) ( पर्युदासशब्दे दृश्यम् ) । [ ख ] निषेधः । [ग ] मीमां-
सकास्तु मा कुरु इति निवारणम् । यथा प्राधान्यं हि विधेर्यत्र प्रतिषेधे-
प्रधानता ( मीमां० का ० ) इत्यादौ इत्याहुः । [घ ] प्रतिषेधः स
विज्ञेयो यत्रोत्तरपदेन नञ् ( मी० न्या० पृ० ६२ ) । २ दूषणाभिधा-
नम् । ३ अर्थालंकारविशेषः इत्यालंकारिका आहुः ।
-
प्रतिसंधानम् – १ ज्ञानम् । अनुसंधानमप्येवमेव व्याख्येयम् । २ अन्वे-
षणम् । ३ अनुचिन्तनम् । ४ नष्टद्रव्यस्योपलब्धिव्यापारः ( वाच० )।
प्रतीकः - १ अवयवः ( भागः ) । यथा प्रत्यक्षोपजीवकत्वात् ( चि० २
पृ० १ ) इति प्रन्थस्य प्रत्यक्षविति ( दीधि ० २ पृ० १ ) इति प्रतीको
दीधितिकारेण गृहीतः । अत्रायं नियमः । यत्र समासघटकस्यं अच्
-
१ अप्रधानता इति पदच्छेदः ।
६८ म्या० को●