2023-02-20 00:55:50 by ambuda-bot
This page has not been fully proofread.
५३६
न्यायकोशः ।
•
संयुक्तत्वम् । यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वान्म-
दिव्यत्र जीवनप्रतियोगित्वम् ( दीधि० बाघ ० २ पृ० २३ ) ( चि० २
१० ६८) इत्यादौ आत्मनो जीवनस्य मरणस्य वा प्रतियोगित्वम् ।
अत्र आत्मशरीर विभागस्य चरमप्राणशरीरसंयोगध्वंसस्य वा मरणरूपत्वे
स्वं विभागः ध्वंसो वा । तदाश्रयः शरीरम् । तत्संयुक्तत्वमात्मनः इति
लक्षणसंगतिः । जीवनप्रतियोगित्वं तु सदेहात्ममनः संयोगस्य जीवन-
रूपत्वे स्वीकर्तव्ये तादृशसंयोगानुयोगित्वमेवात्मनः प्रतियोगित्वम् इति
विज्ञेयम् ।
प्रतियोगितावच्छेदकः- येन रूपेण ( धर्मेण ) यस्याभावादौ प्रतियोगिता
बोध्यते स धर्मः । यथा घटाभावे घटस्य घटत्वरूपेण प्रतियोगिता
बोध्यते । अतस्तत्र घटत्वं प्रतियोगिताबच्छेदकम् । स च धर्मः क्वचि-
देकः कचिदनेकश्च । तत्र वह्निर्नास्तीत्यादौ वह्नित्वमेकम् । महानसीय-
वहिनीस्तीत्यादौ महानसीयत्वं वह्नित्वं चेत्युभयम् । घटपटोभयं नास्ती-
त्यादौ तु घटत्वम् पटत्वम् उभयत्वं चेति त्रयम् इत्यादिकमनेकम् ।
संबन्धोपि प्रतियोगितावच्छेदको भवति । स च येन संबन्धेन प्रति-
योगिताया अभावांशे भानम् तादृशः संबन्धः । यथा संयोगेन घटो
नास्ति इत्यादौ संयोगेन घटस्याभावांशे प्रतियोगिताभानम् इति तत्र
संयोग संबन्धः प्रतियोगितावच्छेदक संबन्ध: । एवम् साध्यतावच्छेदक-
संबन्ध: पक्षतावच्छेदकसंबन्ध: आधेयतावच्छेदकसंबन्धश्च इत्यादिक-
मूह्यम् । अधिकं चावच्छेदकशब्दे दृश्यम् ।
-
०
प्रतिरुद्धः - १ प्रकरणसमशब्दबदस्वार्थोनुसंधेयः (ता० २० श्लो० ८३ )।
२ प्रतिरोधकर्मा । यथा साध्यविरोध्युपस्थानसमर्थसमानबलोपस्थित्या
प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ सत्प्र० पृ० ९४ ) इत्यादौ ।
प्रतिरोधः - १ सप्रतिपक्षदोषः । यथा पक्षसाध्यसाधनाप्रसिद्धिस्वरूपा
सिद्धिबाधप्रतिरोधानां निरास: ( दीधि ० ) इत्यादौ । २ प्रतिबन्धः
कार्यविशेषानुत्पादो वा । ३ तिरस्कारः । ४ हठचौर्यम् इति व्यवहारज्ञा
आहुः ( चाच० ) ।