This page has not been fully proofread.

न्यायकोशः ।
 
:
 
सेनैवोपपत्तौ न प्रतियोगित्वरूपातिरिक्तपदार्थकल्पना इति । भत्रो-
पयोगित्वेनाधिकमुच्यते । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमता इति
न्यायः । तदर्थश्च यादृशसमभिव्याहारस्थले येन संबन्धेन यद्धर्मिणि येन
रूपेण यहत्त्वं नञसत्त्वे प्रतीयते तादृशस्थले नञा तद्धर्मिणि तादृश-
संबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावः प्रत्येतव्यः ( ग०
व्यु० का० १ ) । यथा पीतघटे घटो न नीलः इति वाक्यं प्रयुज्यते ।
तत्र नवनिर्मोकदशायां घटो नीलः इत्यत्र येन संबन्धेन ( तादात्म्य-
संबन्धेन ) नीलपदार्थो घटे प्रतीयते तेनैव संबन्धेन नीलप्रतियोगिका-
भावः घटो न नीलः इति वाक्यात्प्रत्येतव्यः इति ( कृष्ण० ) । एवम्
अत्यन्ताभाषस्थलेपि भूतले घटो नास्ति इत्यादौ पूर्वोक्तो न्यायः संयोज
नीयः । केचित्तु प्रतिकूलसंबन्धवत्वम् प्रतियोगित्वम् । यथा घटाभावस्य
संबन्ध: स्वरूपसंबन्धः तस्य प्रतिकूल संयोगः तद्वत्त्वात् घटो घटा-
भावस्य प्रतियोगी भवति इत्याहुः । अखण्डो धर्मविशेषः प्रतियोगिता
इति संप्रदाय: ( मू० म० १ ) । अन्योन्याभावविरहात्मत्वम् इत्यप्यन्य
आहुः (वै० उ० ९१ ११८ ) ( न्या०सि० दी० पृ० ५६ ) । अत्रा-
चार्या आहुः अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० स्त० ३
लो० १ ) इति । एतन्मते इदं च वस्तुनिष्टमभावनिरूपितं प्रतियोगित्वम्
इति विज्ञेयम् । अत्र च यस्य पदार्थस्य अभावः तत्त्वं प्रतियोगित्वम्
इति लौकिकजना वदन्ति । २ वित्तिवेद्यत्वम् ( चि० ३) । यथा
चन्द्रवन्मुखमित्यादौ चन्द्रस्य सादृश्यप्रतियोगित्वम् । ३ अन्वयित्वम्
(अन्वय प्रतियोगित्वम् ) । तच्च स्वरूपसंबन्धविशेषः । यथा चैत्रस्य
पुत्र इत्यादौ षष्ठ्यन्तार्थस्य प्रतियोगित्वम् । यथा वा संयोगेन घटव-
द्भुतलमित्यादौ घटे भूतलानुयोगिकसंयोगसंबन्धप्रतियोगिता । अत्र
विशिष्टबुद्धौ प्रकारतया भासमानस्य घटस्य संसर्गप्रतियोगिस्बम् इति
विशेष्यतया भासमानस्य तु भूतलस्य अनुयोगित्वम् इति च ज्ञेयम् ।
४ निरूपकत्वम् । यथा प्रकारताप्रतियोगित्वमनुमितौ ( ग० सामा०
अत्र वदन्ति इति कल्पे ) । यथा वा विलक्षणविषयताप्रतियोगिकत्वं
संशयत्वम् इत्यादौ ( ग० सत्प्र० अर्वाचीन० पृ० १४ ) । ५ स्वाश्रय-