This page has not been fully proofread.

५३२
 
न्यायकोशः ।
 
द्धस्य भोजनस्य एकादशीश्राद्धादौ प्राप्तिः संभाव्यते इति । २ प्रतिजन्म
इति काव्यज्ञा आहुः ।
 
प्रतिबन्दिः - [ क ] प्रकृतैककल्पे प्रवृत्तं पुरुषमुद्दिश्याप्रकृतकल्पान्तरा-
पादनम् । यथा अनुमित्यव्यवहितपूर्ववर्तिसिद्धिभिन्न सिद्ध्यभावमात्ररूप-
पक्षता चानुमितौ कारणं चेत् तदा स्वसमानाधिकरणानुमित्यव्यवहित-
पूर्वक्षणवर्तित्व विशिष्टज्ञानं कारणं स्यात् इति प्रतिबन्दिः ( दीधि ०
पक्षता० पृ० १२७ - १२८ ) । [ख ] समानं विरोध्युत्तरम् ( राम० ) ।
 
प्रतिबन्धः - १ प्रतिरोधः । यथा मणिर्दाहप्रतिबन्धं करोति इत्यादौ ।
२ व्याप्तिः ( सांख्य० भा० ११०० ) । यथा प्रतिबन्धदृशः प्रति-
बद्धज्ञानमनुमानम् (सांख्यसू० अ० १ सू० १०० ) इत्यादौ ।
 
-
 
प्रतिबन्धकत्वम् – [ क ] कारणीभूताभावप्रतियोगित्वम् ( कु० १ )
( दि० ) ( सि० च० १ तेजोनि० पृ० ८) । अत्र कारणपदं
क्वचित्प्रयोजकपरमपि ( मू० म० १ ) । कारणीभूतेत्या देरर्थश्च स्वावच्छि-
नप्रतियोगिताकत्व संबन्धेना भावत्वावच्छिन्नकारणताया अवच्छेदको यो
धर्मस्तद्वत्त्वम् ( कु० १ टी० ) । तद्धर्मावच्छिन्नकार्यतानिरूपिताभाव-
त्वावच्छिन्न कारणतानिरूपितस्त्रावच्छिन्न प्रतियोगिताकत्वसंबन्धावच्छिन्ना-
वच्छेदकताश्रयधर्मवत्त्वम् इति निष्कर्षः । यथा हृदो वह्निमान् इति
बुद्धी हृदो न वह्निमान् इति निश्चयस्य प्रतिबन्धकत्वम् । तथाहि ।
हृदो वह्निमान् इत्यनुमितौ कारणीभूतो यः अभावः हृदो वहयभाववान्
इति निश्चयाभावः तस्य प्रतियोगी हृदो वह्नयभाववान् इति निश्चयः
इति तस्य तथात्वं संपद्यते । अयं भावः । हृदो वयभाववान् इति
निश्चयदशायां हृदो वह्निमान् इत्यनुमित्यनुदयात्तादृशनिश्चयाभावस्य
तादृशानुमितिं प्रति कारणत्वमङ्गीकर्तव्यम् इति । यथा वा दाहं प्रति
मणेः प्रतिबन्धकत्वम् । तथाहि । मणिसमवधानदशायां वहेर्दाहानुत्पत्त्या
दाहं प्रति मण्यभावस्य कारणत्वेन तत्प्रतियोगित्वं संपद्यते । तत्र कार-
णत्वं मण्यभावत्वेन न तु प्रतिबन्धकाभावत्वेन । अतो नान्योन्याश्रयः ।