2023-02-20 00:55:50 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
प्रतिपत् – चन्द्रस्य प्रथमकलया दर्शनयोग्यत्वसंपत्यर्थ यावान्कालोपेक्ष्यते
स कालः । तथा च सूर्येण सहातिसंनिकृष्टस्य चन्द्रस्य यावता कालेन
सूर्याद्वादशभिरंशैर्विप्रकर्षो भवति तावान्काल शुकपक्षे प्रतिपच्छन्द-
वाच्यः । एवमादित्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादश-
भिरंशैः संनिकर्षो भवति तावान्कालः कृष्णपक्षे प्रतिपत्तिथिः
( पु० चि० पृ० ३२ ) ।
प्रतिपत्तिः – १ बुद्धिवदस्यार्थोनुसंधेयः । २ [क] मीमांसकाश्च शेषस्य
( प्रधानादिकर्मण्युपयुक्तादवशिष्टस्य ) विहितस्थल विशेषे विनियोगः ।
यथा चात्वाले कृष्णविषाणां प्रास्यति ( तैत्ति ० संहि० ६ । १ । ३ ) इत्यादौ
इत्याहुः । [ ख ] धर्मज्ञास्तु फलशून्यकर्माङ्गविशेषः । यथा श्राद्धादौ
दत्तद्रव्यस्य कुशमयब्राह्मणपक्षे जलादौ निक्षेपः प्रतिपत्तिः । यथा वा
पूजितप्रतिमादेश्च जलादौ निक्षेपः प्रतिपत्तिः इत्याहुः । [ग] उप-
युक्तस्या कीर्ण करता निवर्तकं कर्म ( मी० न्या० पृ० ३४ ) । ३ प्रवृत्तिः ।
४ प्रागल्भ्यम् । ५ गौरवम् । ६ प्राप्तिः । ७ पदप्राप्तिः इति काव्यज्ञा
आहुः ( वाच० ) ।
प्रतिपादनम् - १ प्रतिपत्त्यनुकूलशब्दप्रयोगः । यथा श्रुत्यर्थ प्रतिपाद-
यतीत्यादौ । २ दानम् इति काव्यज्ञा आहुः ।
प्रतिप्रसवः - १[क] प्रतिषिद्धैकदेशस्य पुनर्विधानम् । यथा अग्नीषोमीयपश्वा-
लम्भनविधानम् । अत्र रागतः प्राप्तस्य मा हिंस्यात्सर्वा भूतानि इति श्रुतिवा-
क्येन निषिद्धस्य हिंसासामान्यस्यैकदेश अग्नीषोमीयपश्वालम्भनम् अग्नि-
षोमीयपशुमालभेत इति श्रुतिवाक्येन विधीयते इति । यथा वा न भक्ष-
येदेकचरानज्ञातांच मृगद्विजान् । भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखां-
स्तथा ॥ ( मनु० अ० ५ श्लो० १७ ) इति निषिद्धस्य सर्वपञ्चनख-
मांसभक्षणस्यैकदेशस्य पञ्चपञ्चनखमांसभक्षणस्य विधानम् । पञ्चपञ्च-
नखाश्च मनुस्मृतौ ( अ० ५ श्लो० १८) आपस्तम्बधर्मसूत्रे
( १९५।१७।३७ ) चोक्ता: परिसंख्याशब्दे प्रदर्शिताः । [ख ]
निषिद्धस्य पुनः प्राप्तिसंभावना । यथा स्मार्तानां मते एकादश्यां निषि-