This page has not been fully proofread.

म्यायकोशः ।
 
छोष्टषत् इत्यत्र लोष्टदृष्टान्तेन क्रियावत्वे साधिते निष्क्रियाकाशदृष्टान्ते-
नात्मनो निष्क्रियत्वमेव किं न स्यात् । लोष्टदृष्टान्तेन क्रियावत्त्वम्
आकाशदृष्टान्तेन निष्क्रियत्वं न इत्यत्र नियामकाभावात् इत्यादि
( नील० पृ० ४४ ) । [घ ] अनङ्गत्वधिया हेतोः प्रतिदृष्टान्त-
मात्रतः । प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ॥
लो० ११४ ) । प्रतिदृष्टान्तसमध बाधप्रतिरोधान्यतरदेशनाभासः
( गौ० वृ० ५/१/९ ) । स च असदुत्तरत्वेन गुणेन्तर्भवति ( दि० १
पृ० २२ ) ।
 
ता० २० २
 
प्रतिनिधित्वम् – तुल्यरूपतया मुख्यकार्यकारित्वार्थे निधीयमानत्वम् । यथा
वैदिककर्मणि पुरोहितस्य औरसाभावे दत्तकादीनां च प्रतिनिधित्वम् ।
अत्रोच्यते । पुत्रं च विनयोपेतं भगिनीं भ्रातरं तथा । एषामभाव एवान्यं
ब्राह्मणं विनियोजयेत् ॥ ( स्कन्दपु० ) इति । तद्यथा वैदिककर्माङ्ग-
द्रव्यादीनां मुख्यानामलाभे तुल्यरूपतयान्यो विधीयते इति । तदेतत्
सूत्रकारैः ( कात्यायनश्रौत० १ कण्डिका० ४ ) व्यवस्थापितम् । तत्तत्रैव
दृश्यम् । तथा दत्तकक्रीतपुत्रादीनां प्रतिनिधित्वं दत्तकमीमांसादौ व्यवस्था-
पितम् । तत्तत्रैव दृश्यम् ।
 
प्रतिपक्ष: - १ विरोध्यनुमानम् । तच्च विरोधिव्यायादिमत्तया परामृश्य-
मानो हेतुः । विरोधिपरामर्शो वा ( दीधि० २ सत्प्रति० पृ० २०८ ) ।
यथा सत्प्रतिपक्ष इत्यत्र हृदे धूमेन वह्निसाधने वयभावव्याप्यवान् हृदः
इति परामृश्यमानो जलरूपो हेतु: तादृशपरामर्शो वा प्रतिपक्षः ।
२ विप्रतिपस्यपरकोटि: ( गौ० वृ० १ । १४१ ) । यथा विमृश्य पक्ष-
प्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० १११।४१ ) इत्यादौ ।
३ विरुद्धपक्षः । यथा परार्थानुमाने वादिना पर्वते वहिसाधने कृते
प्रतिवादिपक्षः पर्वतो न वह्निमान् इति प्रतिपक्षः । ४ प्रतिवादी इति
व्यवहारज्ञा आहुः । विरोधी । ६ शत्रुः इति काव्यज्ञा आहुः ।
 
प्रतिपक्षितत्वम् - १ सत्प्रतिपक्षः । २ प्रतिपक्षवदस्यार्थोनुसंधेयः ।