This page has not been fully proofread.

न्यायकोशः ।
 
५२९
 
प्रतितत्रसिद्धान्तः – ( सिद्धान्तः ) [ क ] समानतब्रसिद्धः परतन्त्रासिद्धः
प्रतितन्त्र सिद्धान्तः ( गौ० ११ १२ १२९ ) । अत्र समानशब्द एकार्थः ।
तेन एकतन्त्रसिद्ध इत्यर्थः । स्वतन्त्रसिद्धः इति पर्यवसितोर्थ: ( गौ०
वृ० १ । १ । २९) । यथा नासत आत्मलाभः न सत आत्महानम् निरतिशया-
श्चेतनाः देहेन्द्रियमनःसु विषयेषु तत्तत्कारणेषु च विशेषः इति सांख्या-
नाम् । पुरुषकर्मनिमित्तो भूतसर्गः कर्महेतवो दोषाः प्रवृत्तिश्च स्वगुण-
विशिष्टाश्चेतनाः असदुत्पद्यते उत्पन्नं निरुभ्यते इति नैयायिकानाम्
( वात्स्या० १ । १ । २९) । [ख] वादिप्रतिवाद्येकतर मात्राभ्युपगतस्तदेक-
तरस्य प्रतितन्त्रसिद्धान्तः । यथा मीमांसकानां शब्दनित्यत्वम् ( गौ० वृ०
१ । १ । २९) । यथा वा नैयायिकानां शब्दानित्यत्वम् (प्र० प्र० ) । यथा
वा नैयायिकस्य मन इन्द्रियम् । तच्च समानतन्त्रे वैशेषिके सिद्धम् ( त०
भा० पृ० ४३ ) । [ ग ] स्वतन्त्र एव सिद्धोर्थः परतन्त्रनिवारितः । प्रति-
तन्नो यथा न्याये सर्वज्ञस्य प्रमाणता ॥ (ता० र० श्लो० ६० ) इति । प्रति-
तन्त्रसिद्धान्तश्च यथायथं द्रव्यादावन्तर्भवतीति विज्ञेयम् ( दि ०११०२२ ) ।
प्रतिदानम् - द्रव्यान्तरग्रहणपूर्वकं दानम् । यथा तिलानस्मै प्रतियच्छ-
तीत्यादौ धात्वर्थः (श० प्र० श्लो० ६९ टी० पृ० ८६ ) ।
 
-
 
-
 
प्रतिदृष्टान्तसमः – ( जाति: ) [ क ] प्रतिदृष्टान्तेन प्रत्यवस्थानाप्रति.
दृष्टान्तसमः ( गौ० ५१९) प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्त-
समः । क्रियावानात्मा क्रियाहेतुगुणयोगाल्लोष्टवदित्युक्ते प्रतिदृष्टान्त उपा-
दीयते क्रियाहेतुगुणयुक्तमाकाशं निष्क्रियम् इति । कः पुनराकाशस्य
क्रियाहेतुर्गुणः वायुना संयोगः संस्कारापेक्षः वायुवनस्पतिसंयोगवदिति
( वात्स्या० ५१११९ ) । [ ख ] प्रतिदृष्टान्तमात्रबलेन प्रत्यवस्थानम् ।
मात्रपददानेन साधर्म्यसमव्युदासः । यथा यदि घटदृष्टान्त बलेना नित्यः
शब्दस्तदा आकाशदृष्टान्तबलेन नित्य एव स्यात् । नित्यः किं न स्यात्
इति बाधः प्रतिरोधो वा आपादनीयः । हेतुरनङ्गम् दृष्टान्तमात्रबला-
देव साध्य सिद्धिरित्यभिमानः (गौ० वृ० ५/१/९) । [ग] दृष्टान्तान्त-
रेण साध्याभावसाधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्वा-
६७ न्या० को०