This page has not been fully proofread.

न्यायकोष्ठः ।
 
कि इदगाह मंन्द्रिय सामान्यं नित्यम् कामं घटो नियोस्त्विति ।
ख खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं
बहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति
( बाल्या० ५/२/२ ) । अन्न वृत्तिः । प्रतिकूलो दृष्टान्तो यत्र स
प्रतिदृष्टान्तः परपक्षः स्वः स्वीयो दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः
इति ( गौ० पृ० ५/२/२ ) । [ख] स्वपक्षे परपक्षधर्माभ्यनुज्ञा ।
स्वयं विशिष्याभिहितपरित्यागः इति फलितार्थ : ( गौ० वृ० ५/२/२ ) ।
अत्रोच्यते । कथायां यच्च पक्षादि येन निर्दिष्टमादितः । तस्य तेन
पुमस्यागः प्रतिज्ञाहानिरुष्यते ॥ इति (ता० र० परि० ३ श्लो० १३४ ) ।
[ग] प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा ( नील ०
पृ० ४५ ) । [घ ] विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागः ( दि० १
पु० २२)। पक्षस्य पक्षत्वेन प्रतिपादनाभावरूपता इति भावः
( राम० १ पृ० २२) । यथा शब्दः अनित्यः प्रत्यक्षगुणत्वादित्यत्र
सोयं गकारः इत्यादिप्रत्यभिज्ञाबलात्परेण बाध उद्भाविते अस्तु तर्हि
नित्यः शब्दः इति नित्यत्वमङ्गीकुर्वन्वादी शब्दस्यानित्यत्वप्रतिज्ञां जहाति
( नील० पृ० ४५ ) । सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहानिभेदात्पञ्चधा
भवति । यथा ( १ ) शब्दः अनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया
बाधितविषयोयमित्युत्तरिते अस्तु तर्हि घट एव पक्षः इति । (२) एवम्
तत्रैव ऐन्द्रियकत्वादिति हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकत्वा-
दिति हेतुरिति । ( ३ ) एबम् पर्वतो वह्निमान् घूमादयोगोलकवदित्युक्ते
दृष्टान्तः साधनविकल इति प्रत्युक्ते अस्तु तर्हि महानसवदिति । ( ४ )
एवम् अत्रैव सिद्धसाधने च प्रत्युक्ते अस्तु तर्हि इन्धनवानिति । (५)
अन्यहानिस्तु विशेषणहान्यादिः । यथा तत्रैव नीलधूमादित्युक्ते असमर्थ-
विशेषणत्वेन प्रत्युक्ते अस्तु तर्हि घूमात् इति हेतुः इत्यादि ( गौ०
हृ० ५५२१२) । प्रतिज्ञाहानिश्च अभावे अन्तर्भवतीति विज्ञेयम्
( दि० १ पृ० २२ ) ।
 
प्रतिदम् खमतविरुद्धशास्त्रम् ।