2023-02-20 00:55:49 by ambuda-bot
This page has not been fully proofread.
५२६
न्यायकोशः ।
• मैन्द्रियकं सर्वगतम् । ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् ।
तदर्थनिर्देश इति साध्यसिद्ध्यर्थम् । कथम् । यथा घटोसर्वगत एवं
शब्दोप्यसर्वगतो घटवदेवानित्य इति । तत्रानित्यः शब्द इति पूर्वा
प्रतिज्ञा । असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् (वात्स्या ०५ । २ । ३ ) ।
[ख] प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तदूषणोद्दिधीर्षया धर्मस्य धर्मा-
न्तरस्य विशिष्टः कल्पो विकल्पः तस्मात् विशेषणान्तरविशिष्टतया
प्रतिज्ञातार्थस्य कथनम् ( गौ० वृ० ५/२/३ ) ( ता० २० परि० ३
लो० १३५) । प्रतिज्ञातार्थस्येत्युपलक्षणम् हेत्वतिरिक्तार्थस्य इति
तत्त्वम् । तेन उदाहरणान्तरमुपनयान्तरं च प्रतिज्ञान्तरत्वेन संगृहीतं
भवति । अत्र प्रतिषेध इत्यनेन झटिति संवरणे विलम्बेनापि स्वयं दूषणं
विभाव्य विशेषणे न दोषः इत्युक्तम् ( गौ० दृ० ५/२/३ ) ।
[ग] परोक्तदोषोद्दिधीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थ-
कथनम् ( दि० १ पृ० २२ ) ( नील० पृ० ४५ ) । यथा क्षित्या-
दिकं गुणजन्यं कार्यत्वादित्यत्रादृष्टजन्यत्वेन सिद्धसाधनोद्भावने सविषयक
इति गुणविशेषणदानम् ( नील० पृ० ४५ ) । इदं च पक्षसाध्य-
विशेषणभेदात्प्रत्येकं द्विविधम् । यथा शब्दः अनित्य इत्युक्ते ध्वनौ बाधेन
परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरम् । एवम् पर्वतो
वह्निमान्सुरभिमलिनधूमवत्त्वादित्युक्ते असमर्थविशेषणत्वेन च परेण प्रत्युक्ते
कृष्णा गुरुप्रभववह्निमानित्यत्र । एवम् तादृशवहौ साध्ये यः सुरभिमलिन-
घूमवान् स वह्निमान् इत्युदाहरणे न्यूनत्वेन प्रत्युक्ते स तादृशवह्निमानि-
त्यत्र । एवमन्यदप्यूह्यम् ( गौ० वृ० ५ । २ । ३ ) । प्रतिज्ञान्तरं च गुणे-
न्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२ ) ।
०
*
प्रतिज्ञाविरोधः – ( निग्रहस्थानम् ) [क] प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञा-
विरोध: ( गौ० ५/२४ ) । गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपा-
दितोर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयं प्रतिज्ञाहेत्वोर्विरोधः । कथम् ।
यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिर्नोपपद्यते ।
अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते ।