This page has not been fully proofread.

न्यायकोशः ।
 
१० ११ १/३३ ) ( दीधि० २ जब० १० १६७) । [६] साध्य-
धर्मविशिष्टथर्मिप्रतिपादकं वचनम् (त० भा० पृ० ४३ ) ( ० ० २
पृ० २२ ) । यथा पर्वतपक्षकबहिसाभ्यकस्थले पर्वतो मन् इति
वाक्यं प्रतिज्ञा । साम्यतावच्छेदकावच्छिमसाध्यप्रकारकपक्षतावच्छेदका-

 
पक्षविशेष्यकबोधजनको म्यायावयवः इत्यर्थः (नीक० २
पृ० २२) ( दीवि० ) । अत्र निगमनवारणाय च साध्यांशे साध्य-
ताबच्छेदकातिरिक्ताप्रकारकत्वं बाच्यम् । तदर्यच साध्यतावच्छेदक-
प्रकारताविलक्षण प्रकारताशून्यस्त्वम् । तेन प्रमेयवतः साध्यत्वे नासिद्धिः ।
उदासीनवारणाय च न्यायान्तर्गतत्वे सति इति विशेषणीयम् । न्यायान्त-
र्गतत्वे सति प्रकृतपक्षतावच्छेदकावच्छिमपक्षक
प्रकृतसाभ्यतावच्छेदका
वच्छिन्नसाध्यविषयताविलक्षणविषयताकबोधाजनकत्वे सति प्रकलपक्षे
प्रकृतसाध्यबोधजनकत्वं तत् । प्रतिज्ञात्वावयवत्वादिकं परिभाषाविशेष-
विषयत्वरूपम् तत्तद्व्यक्तित्वरूपं च ( गौ० वृ० १।१।३३ ) । उदाहर-
णाच न पक्षतावच्छेदक विशिष्टे साध्यवैशिष्ट्यज्ञानम् । उपनयाच न
पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदक विशिष्टवैशिष्ट्यज्ञानम् इति तयो-
युदासः ( दीधि० २ अवय० पृ० १६७ ) । [ग] अनुमेयोदेशः
अविरोधी प्रतिज्ञा । प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोपदेशविषया-
पादनार्थमुद्देशमात्रम् । यथा द्रव्यं वायुः इति । अविरोधिग्रहणात् प्रत्यक्षा-
नुमानागमस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । यथा अनुष्योग्निः
इति प्रत्यक्षविरोधी । घनमम्बरम् इत्यनुमानविरोधी । ब्राह्मणेन सुरा पेया
इत्यागमविरोधी । वैशेषिकस्य सत्कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी ।.
न शब्दोर्थप्रत्यायकः इति स्ववचन विरोधी ( प्रशस्त० २१० २८ ) ।
 
प्रतिज्ञान्तरम् ~~( निग्रहस्थानम् ) [ क] प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पा-
त्तदर्थनिर्देशः प्रतिज्ञान्तरम् ( गौ० ५ । २ । ३ ) । प्रतिज्ञातार्थः अनित्यः
शब्द: ऐन्द्रियकत्वाद्धटवदित्युक्ते योस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभि:
चारः सामान्यमैन्द्रियकं नित्यम् इति । तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे । धर्म-
विकल्पादिति । दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदारसामान्य-