This page has not been fully proofread.

न्यायकोच +
 
·
 
भाषा प्रतिका पक्ष इति नार्यान्तरम् ( मिताक्षरा ब० २ को० ६)
भाषाशब्दे दृश्यम् । अत्र प्रतिज्ञालक्षणमाह याज्ञवस्क्यः । व्यर्थिगोमतो
लेयं यथावेदितमर्थिना । समामासतदर्थाहर्नामजात्या विचिह्नितम् ॥
इति ( वीरमि० २ पृ० ६१ ) । ३ अङ्गीकारः इति काव्यज्ञा आहुः ।
४ न्यायाबयवः । यथा पर्वतो वह्निमान् इति प्रतिज्ञाषाक्यम् । पक्षशानं
प्रतिज्ञायाः प्रयोजनम् ( त० दी० २ पृ० २२ ) । लक्षणं च प्रतिज्ञा-
त्वमेव । तच्चात्र हेत्वभिधानप्रयोजक जिज्ञासाजनकवाक्यत्वम् । लिङ्गाविषय-
कलिङ्गिविषयकज्ञानजनकन्यायावयवत्वं ( चि० २ अब० पृ० ७७ ) बा ।
इतरान्वितस्वार्थबोधकत्वे सति स्वीयं यदन्त्यभिन्नं पदं तदर्थविशेष्यका-
न्वयबोधजनकत्वे सति न्यायावयवत्वं वा । अथवा अन्त्यपदवत्वे सति
स्वीयानन्त्यपदार्थ विशेष्यकान्वयबोधाजनकान्यत्वे सति न्यायावयवस्वम्
( दीधि ० २ पृ० १७७ ) । यद्वा एतन्यायघटकः पर्वतो वह्निमान् इति
यः शब्दः तद्वृत्त्यवयवविभाजको पाधिमत्त्वम् (न्या० म० २ पृ० २३ ) ।
प्रतिज्ञास्वं जातिः इति केचिदाहुः ( चि० २ अब० पृ० ७७ ) ।
वस्तुतस्तु प्रतिज्ञात्वमखण्डोपाधिरेव इत्यन्ये आहुः ( म०प्र० २
पृ० ३३ ) । प्रतिज्ञावाक्यं च उद्देश्यानुमितिहेतु लिङ्गपरामर्शप्रयोजक-
शाब्दज्ञानजनकत्वे सत्युद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकं
वाक्यम् । सत्यन्तस्य प्रकृतन्यायावयवत्वं पर्यवसितार्थः । तेन प्रकृत-
न्यायब हिर्भूतवाक्यवारणम् ( दीधि ० २ अबय० पृ० १६७ ) । एव-
मञेपि बोध्यम् । अथवा उद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञान-
जनकत्वे सत्युद्देश्यानुमितिविषयकलिङ्गाविषयकशाब्दज्ञानजनकं वाक्यम्
( चि० २ अवय० पृ० ७७ ) । सा च प्रतिज्ञा [ क ] साध्यनिर्देश:
प्रतिज्ञा ( गौ० १९९१ । ३३ ) । प्रज्ञापनीयेन धर्मेण धर्मिणो विशिष्टस्य
परिग्रहबचनं प्रतिज्ञा । साध्यनिर्देशः अनित्यः शब्दः इति (वात्स्या ०
१ । १ । ३३ ) । साधनीयस्य अर्थस्य यो निर्देशः स प्रतिज्ञा । तथा च
पक्षतावच्छेदक विशिष्टपक्षे साध्यतावच्छेदकविशिष्ट वैशिष्ठयबोधको न्याया-
वयमः इमर्थः । साधनीयम्ध वहिमत्त्वादिना पर्वतादिः ( गौ०