2023-02-20 00:55:48 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
५२३
कुशादेरिषोपादाने यथेष्टविनियोगे च प्रत्यवायो न स्यात् इति
( श० प्र० लो० ६९ टी० पृ० ८५ ) । वीरमित्रोदयकारास्तु प्रतिग्रहा-
देव स्वत्वमुत्पद्यते । अन्यथा पात्रविशेषोद्देशेन त्यागे तेनास्त्रीकृतेपि तस्स्वत्वो-
पत्तौ परस्मै तस्य प्रतिपादनासंभवप्रसङ्गः इत्याहु: ( वीर मित्रो० २ दाय
पृ० ५४२ ) । [ ख ] पुण्यार्थकदानजन्यस्वत्वस्य जनकः स्वीकारः ।
ममेदम् इति ज्ञानमिति यावत् । यथा धनं प्रतिगृह्णातीत्यत्र । अत्र फली-
भूतस्वत्ववत्तया धनस्य कर्मत्वं संगच्छते । विक्रयादेर्दानविशेषत्वेपि न तस्य
पुण्यजनकत्वम् । अतस्तल्लब्धस्य स्वीकारो न प्रतिग्रहः इति विज्ञेयम्
( श० प्र० श्लो० ७२ पृ० १०९) । प्रतिग्रहस्य स्वत्वजनकत्वे प्रमाणं
श्रुतिः याजनाध्यापनप्रतिमहर्ब्राह्मणो धनमर्जयेत् इति । स्मृतिरपि ब्राह्मण-
स्याधिकं लब्धम् ( गौतमः ) इति । तदर्थश्च मिताक्षरायाम् ( अ० २
व्यव० श्लो०
० ११४ ) ब्राह्मणस्य प्रतिग्रहादिना लब्धम् तत् अधिकम-
साधारणम् ( वीरमित्रो० २ पृ० ५४३ ) इति । [ ग ] दत्तद्रव्य स्वस्व-
त्वजनकस्वीकारः । यथा गां प्रतिगृह्णातीत्यादौ ( का० व्या० पृ० ५ ) ।
[घ ] शाब्दिकास्तु अदृष्टार्थदत्तस्वीकारः ( ल० म० ) इत्याहुः ।
अयाचितविषये प्रतिग्रहे न दोषः । तदुक्तम् अयाचितोपपन्ने तु नास्ति
दोषः प्रतिग्रहे । अमृतं तं विदुर्देवास्तस्मात्तन्नैव निर्णुदेत् ॥ इति
( गारुडे० अ० २१५) ( वाच० ) । अदृष्टार्थव्यक्तद्रव्य स्वीकारः इत्यन्ये ।
-
प्रतिघातः - १ बलवत्तरवेगप्रयुक्तद्रव्यसंयोगविशेषः । २ मारणम् ।
प्रतिज्ञा - १ [ क ] स्वकर्तव्यत्वेन निर्देश: ( राम० ) । कर्तव्यत्वप्रकारक-
बोधानुकूलव्यापारः इति परमार्थः । यथा अथ हेत्वाभासास्तस्वनिर्णय-
प्रयोजकत्वान्निरूप्यन्ते इति मया तर्कसंग्रहः क्रियते इत्यादि च प्रतिज्ञा ।
[ ख ] कर्तव्यत्वज्ञानम् ( राम० पृ० २ ) । यथा कारिकावलीं विशदी-
करवाणि इति प्रतिज्ञा । २ व्यवहारज्ञास्तु पक्षाभिधायकः पूर्वपक्षभाषा-
द्यपरपर्यायो बाक्यविशेषः प्रतिज्ञा । स च वाक्यविशेषः व्यवहारपाद-
विशेषः पूर्वपादः अर्थिपादश्चेत्यभिधीयते ( वीरमित्रो० २ व्यव० पृ० ६० ) ।
यथा ममेदं द्रव्यमनेन गृहीतं न ददाति इत्यादिः प्रतिज्ञा इत्याइः ।