This page has not been fully proofread.

न्यायकोशः :
 
वयवान्तरासंयोगिन्यवयवे वर्तमानः संयोगः प्रचयः । तेम परमाणुसंयोगो
व्यणुकसंयोगो वा न प्रचयः इत्याहुः (दि० गु० पृ० २०५ ) । २ साहि-
त्यम् ( कि० ५० ५) । ३ चयनम् । यध्यादिना वृक्षाप्रस्थानां पुष्पाणी
प्रचयः इत्येष ( सि० कौ० हृद० पृ० ३४२ ) । अत्र व्याकरण-
नियमः । हस्तादाने चेरस्तेये (पा० सू० ३।३।४०) । इस्तादाने तु धञ् ।
हस्तेन पुष्पप्रचाय इत्येव । चौर्ये तु अच् । प्रचय इत्येव । चौर्येण
पुष्पादेः प्रचयः इति । ४ समूहः । ५ उपचय इति काव्यज्ञा आहुः ।
६ उदात्तानुदात्तस्वरितेभ्यो व्यतिरिक्तश्चतुर्थः स्वर एकश्रुतिः । तो चाभ्या-
पकाः प्रचयः इत्याचक्षते ( जै० न्या० अ० ९पा० २ अधि० ९) ।
प्रज्ञाज्योतिः - भूतेन्द्रियजयी योगिविशेष: (सर्व० सं० पृ० ३८४ पात०)।
प्रज्ञापनम् – १ उदाहरणम् । एतदर्थे वात्स्यायनभाष्यं ( ११२।७ ) द्रष्ट-
व्यम् । २ बोधनम् ।
 
प्रणतिः-
प्रणामः
 
( नमस्कारः ) स्वापकर्षबोधक: करशिरः संयोगादिव्यापारः ।
यथा पयां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा ममसा
चैव प्रणामोष्टाङ्ग उच्यते ॥ इति । बाहुभ्यां चैव जानुम्यां शिरसा
वचसा दृशा । पञ्चाङ्गोयं प्रणाम: स्यात्पूजासु प्रवरः स्मृतः ॥ इत्यादौ
च ( वाच ० ) ।
 
प्रणिधानम् - १ सुस्मूर्षया (स्मर्तुमिच्छया ) मनसो धारणम् ( वात्स्या ०
३।२।४२ ) । २ मनसो विषयान्तरसंचारवारणम् ( गौ० वृ० ३।२।४२ ) ।
इदं च स्मृतेरुद्बोधकरूपं निमित्तं बोध्यम् । अत्र भाष्यम् सुस्मूर्षित-
लिङ्गचिन्तनं चार्थस्मृतिकारणम् इति ( वात्स्या० ३।२।४२) । ३ योगि-
नस्तु चिन्तनविशेषरूपः समाधिविशेषः इत्याहुः । ४ भक्तिविशेषः
( पात० यो० सू० ११२३ ) । ५ अर्पणम् । ६ कर्मणां फलत्यागः
( पात० यो० सू० २।१ ) । ७ प्रयत्द्धः । ८ अभिनिवेश: इति
 
काव्यता आहुः ।
 
६६ न्या० को •