2023-02-20 00:55:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
५१९
६ सत्वरजस्तमसां साम्यावस्था प्रकृतिः ( सां० सू० अ० १ सू० ६१)
इति सांख्या आहुः । अयमर्थः । प्रकृतेः कार्ये महत्तत्वम् । महतब्ब
कार्योहंकारः । अहंकारस्य कार्यद्वयम् तन्मात्राणि उभयमिन्द्रियं च । तत्रो-
भयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्याणि च पञ्च
स्थूलभूतानि । स्थूलशब्दात्तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु
कार्यकारणविलक्षणः इति । इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूहः । एतद-
तिरिक्तः पदार्थो नास्तीत्यर्थः । दिक्कालौ चाकाशमेव इति ( सांख्य ०
प्र० भा० अ० १ सू० ६१ टी० ) । एतन्मते प्रकृतित्वं च तत्वा-
न्तरोपादानत्वम् ( सर्व० पृ० ३१८ सांख्य ० ) । ७ माया अविद्या
)
चेति द्विविधभेदमिन्ना प्रकृतिः इति शांकरा अद्वैतवादिनो मन्यन्ते ।
८ जडात्मको भगवदंशविशेषः इति वाल्लभा आहुः । ९ लक्ष्मीरपीति
श्रीमध्वाचार्यानुयायिनः प्राहुः । एतन्मते च प्रकृतिर्द्विविधा चित्प्रकृतिः
जडप्रकृतिश्च । तत्राद्या लक्ष्मी: । द्वितीया तु मृत्पाषाणादिस्थावरात्मकं
सर्वे जगत् इति विज्ञेयम् ( भाग० १ टी० विजयध्व० ) । अत्र
लक्ष्मीपदेन भगवदिच्छा संगृह्यते ( मध्व ० भाष्य० १/४/२५ ) ।
१० शरीरावस्था इति भिषजो बदन्ति । ११ मूलस्वरः प्रकृतिः इति
गायका गायन्ति । १२ शाक्तास्तु प्रकृत्यंशदेवीपञ्चकरूपशक्तिविशेषः
इत्याहुः । अत्रोक्तम् गणेशजननी दुर्गा १ राधा २ लक्ष्मी: ३ सरस्वती ४ ।
सावित्री ५ च सृष्टिविधौ प्रकृतिः पञ्चमी स्मृता ॥ इति । १३ प्रकृति-
शब्दवाच्यो विष्णुः इति श्रीपूर्ण प्रज्ञाचार्या व्याचक्रुः ( मध्वभा० )।
अत्र ब्रह्मसूत्रम् ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ इति ( ब्र०
सू० १९४/२४ ) । प्रकृति: प्रकृष्टकरणात् ( सर्व० सं० पृ० १४१
पूर्णप्र० ) । अत्र प्रकृतिशब्देन समवायिकारणं (ब्रह्म) ग्राह्यम् इत्यद्वैतिनो
मायावादिनो मन्यन्ते । १४ स्वाम्यमात्यादिराज्याङ्गं प्रकृतिः इति नीति-
शास्त्रज्ञा आहुः । अत्रोच्यते । स्वाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलानि च ।
राज्याङ्गानि ७ प्रकृतयः पौराणां श्रेणयोपि च ॥ इति ( अमरः
काण्ड० २ क्षत्रि० श्लो० १७ - १८) । १५ एकविंशत्यक्षरपाद-