2023-02-20 00:55:47 by ambuda-bot
This page has not been fully proofread.
५१८
न्यायकोशः ।
●
चात्र हेतुपञ्चमी । गुणातिरिक्तहेतौ पञ्चम्यनुशासनविरहात् ( ग० व्यु०
का० ५ पृ० १०८) । अत्र गुणत्वं च स्वप्रयोज्याश्रयवृत्तित्वम् । तेन
वह्निमान् घूमादित्यादौ धूमस्य गुणत्वप्रात्या विभाषा गुणेस्त्रियाम्
( पा० सू० २/३/२५) इत्यनेन धूमपदात्तृतीयापञ्चम्यौ संगच्छेते
( ग० अवय० हेतु० ) । अत्र समवाय असमवाय निमित्त एतत्रितय -
साधारणं कारणत्वम् । न तु समवायिकारणत्वमात्रं विज्ञेयम् । तेन
दण्डाइटो जायत इति प्रयोग इष्यते । अत एव यतो द्रव्यं गुणाः कर्म
इत्यादौ पञ्चमी ( ग० व्यु० का० ५ १० १०८ ) । यतः ईश्वरात् ।
अथ वा केवलं समवायिकारणम् (वै० वि० ) ( बै० उ० ८/२१५ ) ।
यथा पृथिवी गन्धज्ञाने (घाणे) प्रकृतिः (वै० सू० ८।२।५ ) इत्यादौ ।
अथवा स्वजनकनाशप्रतियोगि । यथा दुग्धं दनः प्रकृतिः ( राम० १
पृथिवी० पृ० ६८) । यथा वा महापटः खण्डपटस्य प्रकृतिः
( मु० १ पृथिवी० ) । स्वजनकेत्यस्यार्थश्च स्वम् दधि । तस्य जनको
यो नाशः दुग्धनाशः तस्य प्रतियोगि दुग्धम् तत्त्वं दुग्धे इति । एवम्
खण्डपटस्य जनकीभूतो नाशः महापटनाशः तत्प्रतियोगित्वं महापटादौ
इति द्रष्टव्यम् । ३ यावदाश्रयभाविधर्मः । यथा प्रकृत्या कृपणः स्वभा-
वेन सरल: इत्यादौ । अत्र तृतीयार्थश्चाभेदस्तादात्म्यं वा । एवं च
स्वाश्रयाधिकरणयावत्कालवृत्तिकार्पण्यवान् इत्याकारस्तत्र बोधः । अत्र
प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम् ) इत्यनेन तृतीया विधीयते ( श०
प्र० श्लो०
० ९३ टी० पृ० १२४ ) । ४ स्वभावः । ५ मीमांसकास्तु यत्र
समप्राङ्गोपदेशः सा प्रकृतिः । यथा दर्शपूर्णमासादिरूपप्रधानयागः
प्रकृतिः (इष्टयग्निहोत्रसोमाः प्रकृतयः ) ( लौ० मा० पृ० २३) इत्याहुः ।
अत्रेदं बोध्यम् । यत्र कर्तव्यं सर्वे प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोपदिश्यते
सा प्रकृतिः । यत्र विशेषरूपमेव कर्तव्यं श्रुत्योपदिश्यते इतरत्सर्वे
कर्मान्तरादतिदिश्यते सा विकृतिः ( त्राच० )। तत्रापि मूलप्रकृतिः
अवान्तर प्रकृतिः इति प्रकृवियादिकं तु विस्तरभयान्नोच्यते इति ।
१ अत्रियामिति पदच्छेदः । २ गन्धो ज्ञायते अनेन तत् । घ्राणेन्द्रियमित्यर्थः ।