This page has not been fully proofread.

न्यायकोशः ।
 
निश्चयस्यासवेपि तदर्थस्यैकत्ववर्तमानत्वादे चैत्रपाकादावन्वयात् स्वाव्यव
हितोत्तरत्वसंसर्गेण तादृशशब्दवत्ताया निश्चय एव तदुपस्थाप्यया दृशा-
न्वयबोधं प्रति हेतुः तादृशस्यैव च शब्दस्य प्रकृते तथाविधः स्वार्थः ।
स च पाकेत्यादेः शक्त्यादिविरहेपि पचनादिरूपः सुवच एव । पचनादेः
कर्मस्वादावन्वयबोधं प्रति अमादिधर्मिकतादृशशब्दवत्ताया निश्चयस्यैव
हेतुत्वात् लक्षणसमन्वयः । प्रत्ययास्तु पदान्तरार्थानवच्छिन्नस्य संख्या
काल इष्टसाधनत्व इत्यादिस्वार्थस्यान्वयबोधं प्रत्यनिश्चिता अप्युपयुज्यन्ते
इति तत्र नातिव्याप्तिः ( श० प्र० श्लो० ६ टी० पृ० ८ ) । [ख]
खोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृश-
शब्दवत्ता निश्चयत्वेन हेतुत्वम् तादृश एव शब्दस्तथाविधार्थे प्रकृतिः । बहु-
गुडो द्राक्षेत्यादौ बहुजाद्यर्थस्यान्वयबोधं प्रति न गुडादिपदधर्मिक-
बहुजादिनिश्चयत्वेन हेतुत्वम् । अपि तु सुबादिधर्मिकबहुगुडादिपदनिश्च-
यत्वेन । अन्यथा केवलादपि बहुगुडादिपदाड्राक्षादौ बहुजाद्यर्थस्यान्वय-
बोधापत्तेः इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ७ टी० पृ०९-१०) ।
[ग] शाब्दिकास्तु पाणिनिप्रभृतयः प्रातिपदिकं प्रकृतिः इत्याहुः
(श० प्र० श्लो० १३ टी० पृ० १५) । [घ ] नव्यशाब्दिकाः नागोजी-
भट्टादयस्तु अर्थावबोधहेतुः प्रत्ययविधानावधिभूतः शब्द विशेषः इत्याहुः ।
अत्रावधित्वं च पूर्वापरत्वरूपं ग्राह्यम् । तेन बहुगुडो द्राक्षेत्यत्र बहुजादे -
र्निमित्तप्रकृतौ नाप्रसङ्गः । वस्तुतस्तु बहुगुडो द्राक्षेत्यत्र प्रकृतिप्रत्ययविभाग
एव नास्ति इति भाष्यकारमतमित्यन्यत् । अत्रार्थे व्युत्पत्तिः । प्रकरोति
प्रत्ययं बोधं च इति प्रकृतिशब्दो योगरूढः ( वाच ० ) । अत्र प्रकृतित्वं
च प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वम् ( शेखर ० ) । प्रत्ययविधाना-
वधित्वम् वा ( ल० म० ) । अथवा तदर्थान्वितखार्थबोधने तदपेक्षत्वे
सति तद्विधानावधिभूतत्वम् । इयं प्रकृतिर्द्विविधा । नाम धातुश्चेति
( श० प्र० श्लो० १३ ) । २ कारणम् यथा मृत्पिण्डाइटो जायत
इत्यादौ मृत्पिण्ड: प्रकृतिः (ग० व्यु० का० ५ पृ० १०८ ) । अत्र
जनिकर्तुः प्रकृतिः (पा० सू० १ । ४ । ३०) इत्यनेनापादानत्वम् । न
 
०७