2023-02-20 00:55:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोश ।
-
व्यवहारात् इति ज्ञेयम् (सांख्य० प्र० मा० अ० १ सू० १४५ ) ।
४ व्यवहारशास्त्रज्ञास्तु सर्वजनज्ञानविषयः । यथा प्रतिग्रहः प्रकाशः
स्यात्स्थावरस्य विशेषतः ( वीरमित्रो० २ १० ५८६ स्मृतिः) इत्यादौ
इत्याहुः । ५ सर्वश्राव्यं वाक्यं प्रकाशम् इति नाटकज्ञा आहुः ।
प्रकीर्णम् – १ प्रन्धविच्छेदः । २ विशकलिततया विद्यमानत्वम् । यथा
प्रकीर्णवादस्यायुक्तत्वात् ( त० दी० पृ० ३३) इत्यादौ । ३ विभिन्न-
जातीयानां मिश्रणम् ( वाच० ) । यथा भट्टिकाव्ये नानाजातीयप्रत्ययो-
दाहरणबोधककाण्डम् । ४ विक्षेपः । ५ धर्मज्ञास्तु अनुक्तप्रायश्चित्त
विशेषको पापभेदः । अत्रोक्तम् अनुक्तं तप्रकीर्णकम् इति ( स्मृति: )
( बाच० ) । यथा प्रकीर्णपात के ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं
बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ ( विष्णु० ) इत्यादी इत्याहुः ।
प्रकृतत्वम् - [क] प्रतिज्ञा विषयत्वम् (न्या० २० सामान्यनि० पृ० १०) ।
यथा एवम् दुष्टहेतुनिरूपणस्याप्रकृतत्वे दुष्टहेतूनां विभागानर्हतया
( ग० हेत्वा० पृ० २ ) इत्यादौ । यथा वा प्रकृतपक्षतावच्छेदका-
वच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेद कावच्छिन्नप्रकारताघटिते
हेत्वाभासलक्षणे हृदो बहिमान् धूमादित्यत्र पक्षताबच्छेद की भूतहदत्वस्य
साध्यताबच्छेद की भूतवह्नित्वस्य च प्रकृतत्वम् । [ ख ] उद्देश्यत्वम्
( म० प्र० ४ पृ० ५६) । यथा प्रकृतान्वयबोधसमानाकारस्वजन्या-
न्वयबोधविरह आकाङ्क्षा इत्यादौ ( न्या० म० ४ पृ० २२ ) ।
[ग] वर्तमानकाले गृहीतत्वम् । [घ ] प्रकरणप्राप्तत्वम् । [ ङ ]
आरब्धवं इति केचिदाहुः । [च ] अधिकृतत्वम् ( वाच० ) ।
प्रकृतिः - १ ( शब्दः ) [क] स्खेतरशब्दार्थाविशेषितस्य यादृशस्वार्थस्या-
न्वयबोधं प्रति स्वाव्यवहितोत्तरत्वसंसर्गेण यादृशशब्दवत्ताया निश्चय
एब हेतु: तादृशस्तथाविधार्थे प्रकृतिः । यथा पटभूप्रभृतयो हि शब्दाः
स्वोत्तरविभत्त्याचंशे निश्चिता एव स्वोपस्थाप्यस्य वसनजननादेरन्वयं
प्रत्ययार्थे कर्मत्वकर्तृत्वादी बोधयन्ति न त्वन्यथा ( अनिश्चिता अपि ) ।
अत्रेदं बोध्यम् । चैत्र: पचति यजेत इत्यादौ शब्दान्तरधर्मिकसुबादि-
4²8