2023-02-20 00:55:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
५१५
-
प्रकारता - १ ( विषयता ) [ क ] विशेषणत्वापरनामा विलक्षणविषय-
ताविशेष: ( नील० १ पृ० १७ ) । यथा अयं घटः इति ज्ञाने विशे-
षणस्य घटत्वादेर्विशेषणत्वापरनामा विषयताविशेष: ( न्या० म० १
पृ० ४ ) । [ख] अन्ये तु भासमानवैशिष्ट्यप्रतियोगित्वम् ( न्या० म० १
पृ० ५ ) । संसर्गावच्छिन्नविषयतेति यावत् ( नील० १ पृ० १७)
( सि० च० ) । अत्र विशेष्यतासंसर्गतयोस्तु किंचित्संबन्धावच्छिन्नत्वम-
प्रामाणिकम् इति सिद्धान्तोनुसर्तव्यः । तथा च संसर्गावच्छिन्नत्वं प्रकार-
ताया एव इति भावः । यथा अयं घटः इत्यत्र घटत्वस्य वैशिष्ट्यं भासते
तत्प्रतियोगि च घटत्वम् इत्याहुः ( न्या० म० १ पृ० ५) ।
[ग] अपरे तु ज्ञायमान विशेषणप्रतियोगिकसंसर्गावच्छिन्न विषयत्वम्
इत्याहु: ( वाच० ) । २ विषयतानात्मिका प्रतियोगित्वादिनिरूपिता-
वच्छेदकतातुल्यावच्छेदकताविशेषरूपा प्रकारता इति कश्चिदाह ( ग०
बाघ ० पृ० २ ) । यथा पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं
बाध: ( चि० २ हेत्वा० पृ० १०३) इत्यत्र तादृश विषयत्व निरूपिता
अभावनिष्ठा प्रकारता । हृदो वह्निमान् धूमादित्यादौ पक्षः साध्याभाव-
वान् इति ज्ञाने पक्षनिष्ठप्रमाविषयत्वस्य प्रकार: साध्याभावः इति लक्षण-
समन्वयः ( दीधि ० २ पृ० २१८ ) । सप्रकारकत्वं विषयताया एव
न तु ज्ञानस्य इत्यतिरिक्त विषयतावाद्येकदेशिमताभिप्रायकमतिसूक्ष्मतर-
मेतत् । प्रकारताश्रयश्च विशेषणोपलक्षणभेदेन द्विविधो बोध्यः ।
प्रकाशः – १ ज्ञानम् । यथा अर्थप्रकाशो बुद्धिः इत्यादौ ( त० भा० )
( त० प्र० ) । अत्र वैशेषिका आहुः प्रागप्रकाशरूपस्य जडस्यात्मनो
मनःसंयोगाज्ज्ञानाख्यः प्रकाशो जायते इति ( सांख्य ० प्र० भा० अ० १
सू० १४५ ) । २ तेजः । यथा प्रचुरप्रकाशो रविरित्यादौ । तमो-
विरोध्याकारो हि प्रकाशशब्दवाच्यः ( सर्व० सं० पृ० ४५७ शां० ) ।
३ ज्ञानस्वरूप आत्मा प्रकाशः इति सांख्या आहुः । अत्र सूत्रम्
जडप्रकाशयोगात् प्रकाश: इति ( सांख्य • सू० अ० १ सू० १४५) ।
अस्मिन्मते प्रकाशत्वं च तेजः सत्वचैतन्येष्वनुगतमखण्डोपाधिः अनुगत-