2023-02-20 00:55:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
५१३
.
साधकः एतयोः कः परामर्शः प्रमा इति वा यत्र जिज्ञासा भवतीत्यर्थः ।
यस्मादित्यादि तु वस्तुस्थितिमात्रम् ( गौ० दृ० ११२१७ ) । अत्र
भाष्यम् । विमर्शाधिष्ठानौ पक्षप्रतिपक्षावुभावनवसितौ प्रकरणम् । तस्य
चिन्ता विमर्शात्प्रभृति प्राङिर्णयाद्यत्समीक्षणम् । सा जिज्ञासा यत्कृता स
निर्णयार्थ प्रयुक्त उभयपक्षसाम्यात्प्रकरणमनतिवर्तमानः प्रकरणसमो
निर्णयाय न प्रकल्पते । प्रज्ञापनं तु अनित्यः शब्दो नित्यधर्मानुपलब्धेरिति ।
अनुपलभ्यमान नित्यधर्मकमनित्यं दृष्टं स्थाल्यादि (वात्स्या ० १ । २।७७)।
अस्मिन्नभिप्राये सूत्रार्थश्च निर्णयार्थ प्रयुक्तो हेतुर्यत्र निर्णयं जनयितुम-
शक्तस्तुल्यबलेन परेण प्रतिबन्धात् किंतु धर्मिण: साध्यवत्वम् तदभाव-
वत्त्वं वेति चिन्तां जिज्ञासां प्रवर्तयति स प्रकरणसमः इति ( गौ० वृ०
१।२।७ ) । प्रकरणसमस्य लक्षणं तु तुल्यबलविरोधिपरामर्शकालीन-
परामर्श विषयत्वम् । स्वसाध्यपरामर्शकालीन तुल्यबलविरोधिपरामर्शो वा
(गौ० दृ० ११२।७ ) इति । अन्यत्सर्वे सत्प्रतिपक्षवज्ज्ञातव्यम् । अत्रेदं
बोध्यम् । विरोधिपरामर्शस्य च हेतुनिष्ठत्वम् एकज्ञानविषयत्वसंबन्धेन
ज्ञेयम् । अन्यथा हेतोर्दुष्टत्वं न स्यात् । अयं च दशाविशेषे दोषः
इत्यतः सद्धेतोरपि विरोधिपरामर्शकाले दुष्टत्वमिष्टमेव इति ( गौ०
वृ० १ ।२।७ ) । [ख] निबन्धे तु प्रकृतसाध्यहेत्वोः किं तस्वम् इति
जिज्ञासाजनिका व्याप्तिपक्षधर्मतोपस्थितिः तद्विषयः ( चि० २ हेत्वा०
पृ० ९७ ) ( म० प्र० २।२७ ) । अत्र जिज्ञासा च प्रकृतसाध्यहेत्वोः
कः समीचीनः इत्याकारिका ग्राह्या ( ग० सत्प्र० पृ० २३ ) । तथा
च अनयोः किं तत्वम् इति जिज्ञासैव सत्प्रतिपक्षफलम् इति बोध्यम्
( चि० २ हेत्वा० पृ० ९७ ) ( ग० सत्प्र० पृ० २२ ) ( म० प्र० २
पृ० २७ ) । तदर्थश्च यादृशपरामर्शसहकारेण यादृशपरामर्शस्योक्त-
जिज्ञासाजनकत्वं तादृश परामर्श सहितता दृशपरामर्श: इति ( ग० सत्प्र०
पृ० २३ ) । अत्र च पर्वते घूमेन वह्निसाधने पर्वतो वहिव्याप्यधूम-
वान् वह्नयभाषव्याप्यजलवान् इति परामर्शद्वयसंवलनदशायां प्रकृतो
धूमो हेतुः सत्प्रतिपक्षितः इति व्यवहियत इत्यनुभवमनुसृत्येदं विज्ञेयम् ।
[ग] यस्य प्रतिपक्षभूतं हेत्वन्तरमस्ति स प्रकरणसमः । स एव
६५ न्या० को०