This page has not been fully proofread.

न्यायकोच! ।
 
सामभिर्मध्यंदिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ( जै० म्या
अ० १ पा० ४ अघि० ३ ) ।
 
पेषणम् – अबयबविभागेन चूर्णनम् । यथा पाटीर तब पटीयान् कः परि-
पाटीमिमामुरीकर्तुम् । यत् पिषतामपि नृणां पिष्टोपि तनोषि परिमळै-
स्तुष्टिम् ॥ इत्यत्र पिषधात्वर्थः ।
 
पैतृकम् – मघा ( पु० चि० पृ० ३५३ ) ।
 
पैशाच: - (विवाह: ) पैशाचः कन्यकाछलात् ( याज्ञवल्क्य ० अ० १
 
-
 
लो० ६१ ) ।
पौनःपुन्यम् – [क ]
 
-
 
प्रकृतधात्वर्थजातीयक्रियोत्तरसादृशक्रियानन्तर्यम् ।
यथा पापच्यत इत्यादौ यङोर्थः पौनःपुन्यम् । अत्र निरुक्तानन्तर्यरूपो
यडर्थः प्रकृत्यर्थे विशेषणत्वेनान्वेति । तेन पाकोत्तरपाकानन्तर्यवत्पाक-
कर्ता इत्येवं वाक्यार्थः ( श० प्र० श्लो० १०८ टी० पृ० १७१) ।
[ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमाना-
दिक्कृतिविषयत्वम् । यथा पापच्यत इत्यादौ यढोर्थ: (तर्का० ४ पृ० ११)।
पौरुषेयत्वम् – सजातीयोच्चारणानपेक्षोच्चरित जातीयत्वम् (चि० ४) । यथा
महाभारतादेः पौरुषेयत्वम् । वेदस्य तु मीमांसकांदिमते अपौरुषेयत्वमेव ।
पौर्णमासी - यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी ( पुरु०
चि०
T० पृ० ३३ ) ।
 
-
 
पौष्णम् - रेवती ( यु० चि० पृ० ३५३ ) ।
 
पौष्कल्यम् – फलजननसामर्थ्यम् ( जै० न्या० अ० ४ पा० १ अधि० २ ) ।
प्रकरणम् – १ संगतिप्रदर्शनप्रयोजिका आकाङ्क्षा । यथा प्रकरणलाघवाय
इत्यादौ ( भवा० ) । २ प्रस्तावः । ३ पक्षप्रतिपक्षौ ( साध्यतदभाव-
वन्तौ ) ( वात्स्या० १ । २।७ ) । यथा यस्मात्प्रकरणचिन्ता ●
१।२।७) इत्यादौ । ४ ग्रन्थसंधिविशेषः । यथा प्रथमं प्रकरणम्
द्वितीयं प्रकरणम् इत्यादौ । ५ [क] उभयाकाङ्क्षा प्रकरणम् इति
मीमांसक्त आहुः । अङ्गवाक्यसापेक्षं प्रधानवाक्यमित्यर्थः । अत्र शाबर-
( गौ०