This page has not been fully proofread.

५१४
 
न्यायकोशः ।
 

 
द्रवत्वम् संस्कारब्धेति ( प्रशस्त० पृ० ३ ) ( त० मा० ) (भा०प० )
( त० सं० ) । तत्र रूपरसगन्धस्पर्शाश्चत्वारः पृथिव्यामेव पाकजाः ।
अन्यत्र जलादौ अपाकजा भवन्ति । एते चत्वारः पाकजा अपाकजा-
श्वापि नित्यायामनित्यायां च पृथिव्यामनित्या एव भवन्तीति विज्ञेयम्
( प्र० प्र० ) ( त० सं० ) । अत्र सूत्रम् पृथिव्यादिरूपरसगन्धस्पर्शा
द्रव्यानित्यत्वाद नित्याश्च (वै० ७११।२) इति । एतेन नित्येषु नित्यत्व-
मुक्तम् (वै० ७ । १ । ३ ) इति च । पृथिव्यां रूपादीनां गुणानां वृत्ति-
स्त्रेयं विवेकः । क्षितावेव गन्धः । रूपमनेकप्रकारं शुक्लादि । रसः
षड़िधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोस्या अनु-
ष्णाशीतत्वे सति पाकज: ( प्रशस्त० पृ० ३) । परिमाणं परममहत्त्वा-
तिरिक्तम् । द्रवत्वं नैमित्तिकम् । संस्कारस्तु वेगः स्थितिस्थापकश्चेति ।
अनित्या पृथिवी च स्थैर्यायवयवसंनिवेशविशिष्टा अपरजातिब
हुत्योपेता
शयनासनाद्यनेकोपकारकरी च ( प्रशस्त ० पृ० ३ ) । द्विविधायाः
पृथिव्या रूपरसगन्धस्पर्शाश्चानित्याः पाकजाश्च ( त० मा० अर्थ
पृ० २७ ) । अनित्यपृथिव्यां विषयरूपायां पाषाणे वज्रं तु पार्थिवमपि
न लोहलेख्यम् । शक्तिभेदात् । अबिन्धनविद्युत्तेजोवत् इति ( न्या०
ली० पृ० १३ ) । मार्गगतधूलिः पृथिवी इति सर्वदर्शनसंग्रहे
( पृ० ७० ) उक्तम् ।
 
पृथिवीकायः – इष्टकादिः ( सर्व० सं० पृ० ७० आई० ) ।
 
पृथिवीकायिकः– पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः
( सर्व० सं० पृ० ७० आई० ) ।
 
-
 
पृथिवीजीव:- पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीजीवः ( सर्व ०
सं० पृ० ७० आई० ) ।
 
पृषदाज्यम् – दधिमिश्रमाज्यम् (जै० न्या० अ० ५ पा० २ अधि० ८) ।
 
-
 
-
 
पृष्ठस्तोत्राणि - अभि त्वा शूर नोनुमः कया नश्चित्र आभुषत् तं वो दस्म-
सुतीषहम् तरोभिर्गो विदद्वसुम् एतानि क्रमेण रथंतर वामदेव्यनौघसकालेय-