This page has not been fully proofread.

न्यायकोशः ।
 
वृ० १०२) । भत्रायं नियमः यद्रव्यं यद्रव्यध्वंसजन्यम् कद्रव्यं
तदुपादानोपादेयम् इति । दृष्टं चैतत् खण्डपढे महापढध्वंसजन्ये
( मु० १ पृथि० पृ० ६५ ) । भस्मखण्डपटयोरवयवानां पाषाणमहा-
पटयोरवयवानां चैक्यम् इति नियमस्याभिप्रायः । अत्र पृथिवीत्वं तु
पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः ( सर्व० सं० पृ०
२१८ औलू० ) । अत्र पृथिवीत्वजातिसिद्धिप्रकारस्तु दिनकर्यादिप्रन्थेषु
द्रष्टव्यः । विस्तरभयान्नोक्तः । लक्षणं च कटुरससमानाधिकरणद्रव्यत्वव्या-
प्यजातिमत्त्वम् गन्धसमानाधिकरण-गन्धासमानाधिकरणगुणासमाना-
धिकरणजात्यधिकरणद्रव्यत्वम् इत्यादि (वै० उ० २।१।११० ६५ ।
अत्र द्रव्यपदप्रयोजनं चिन्त्यम् । पृथिव्या अध्यात्मादिभेदा यथा पृथिवी
पञ्चमं भूतं घ्राणं चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधि-
दैवतम् ॥ इति ( भा० आश्व० अ० ४२ ) । [ग] पृथिवीत्वजाति-
मती । यथा घटः पृथिवी । पृथिवी द्विविधा । नित्या अनित्या च ।
तत्र मिस्या परमाणुलक्षणा । अनित्या कार्यलक्षणा । अनित्या त्रिविधा ।
शरीरम् इन्द्रियम् विषयश्च ( वै० ४।२।१ ) । तत्र शरीरम्
द्विविधम् योनिजम् अयोनिजं च (वै० ४।२।५ ) । तत्र योनिजमस्मदा-
दीनां शरीरं प्रत्यक्षसिद्धम् । अयोनिजं तु क्रिमिदंशादीनाम् । अयोनिजं
च अनपेक्ष्य शुकशोणितं देवर्षीणां शरीरम् धर्मविशेषसहितेम्योणुभ्यो
जायते । क्षुद्रजन्तूनां यातनाशरीराणि अधर्मविशेषसहितेभ्योणुभ्यो जायन्ते
( प्रशस्त० पृ० ४ ) । इन्द्रियम् गन्धग्राहकं घ्राणम् । तच
नासाग्रवर्ति । इदम् सर्वप्राणिनां जलायनमिभूतैः पार्थिवावयवैरारब्धम्
( प्रशस्त० पृ० ४ ) । विषयः मृत्पाषाणादिर्ब्रह्माण्डान्तः । स च
यणुकादिक्रमेणारब्धस्त्रिविधः । मृत् पाषाणः स्थावरश्चेति । तत्र
मुत्पाषाणौ प्रसिद्धी । स्थावरो वृक्षलतादिः ( त० कौ० ) । तत्र
भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः । पाषाणा उपलमणिवज्रादयः ।
स्थावरास्तृणौषधिगुल्मलताप्रत्तानवनस्पतयः इति ( प्रशस्त० पृ० ४ ) ।
पृथिव्यां चतुर्दश गुणा बर्तन्ते । रूपम् रसः गन्धः स्पर्शः संख्या
परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम्
 
(