2023-02-20 00:55:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोवाः ।
(बै० उ० अश२ ) इति । तदर्थव पृथक्त्वमपि संख्याबद्गुणान्तरमेव ।
तत्रैक पृथक्त्वम् एकत्वसंख्यातुल्यम् । द्विपृथक्त्वादिकं च द्विस्वादि-
संख्यातुल्यम् इति ( वै० वि० ७१२/२ ) । पृथक्त्वं सर्वद्रव्यवृत्ति ।
तथा च पृथक्त्वं द्विविधम् । एकवृत्ति अनेकवृत्ति चेति । तत्रैकपृथक्त्व-
मेकवृत्ति । द्विपृथक्त्वाद्यनेकवृत्ति ( त ० कौ० ) । एवं च पृथक्त्वम्
एकपृथक्त्वद्विपृथक्त्वादिभेदेन बहुविधम् ( सि० च० ) । तत्रैक पृथक्त्वं
नित्यगतं नित्यम् । अनित्यगतमनित्यम् ( त० कौ० ) । द्विपृथक्त्वादि
च नानैक पृथक्त्व विषयकापेक्षाबुद्धिजन्यम् तन्नाशनाश्यं च इति सर्वम-
नित्यमेव इति च ज्ञेयम् ( त० कौ० ) । द्वित्वाद्युत्पत्ति विनाशव द्विपृथक्त्वा-
युत्पत्तिविनाशावूहनीयौ ( बै० उ० ७१२१८ ) ( वाक्य० १ पृ० ८) ।
अत्र नव्याः ( दीधितिकाराः ) मीमांसकाश्चाद्भुः । पृथक्त्वमन्योन्याभाव
एव न तु गुणान्तरम् इति ( ग० व्यु० का० ५ पृ० ११० )
( दि० गु० ) । अन्ये त्याहुः । पृथक्त्वं चान्योन्याभावाद्भिन्नमेव । अभावस्य
प्रतियोगिसापेक्षनिरूपणत्वात् । पृथक्त्वस्य त्ववधिनिरूप्यत्वात् इति
( म्या० ली० गुणनि० पृ० २३ ) ( ता० २० श्लो० ४५ ) ।
पृथिवी - (द्रव्यम्) [ क ] गन्धसमवाधिकारणम् (मु० १ ) । तथा च
सूत्रम् रूपरसगन्धस्पर्शवती पृथिवी ( वै० २।१।१ ) इति । व्यवस्थितः
पृथिव्यां गन्धः (वै० उ० २१ २२ ) इति च । [ ख ] गन्धवती
( स० सं० ) । यथा आम्रादिफलम् । गन्धवतीत्यस्य गन्धसमानाधिकरण-
द्रव्यत्व व्याप्यजातिमतीत्यर्थः । तेन उत्पत्तिक्षणे घटादौ उत्पन्नविनष्टे च
द्रव्ये गन्धासस्वेपि नाव्याप्तिः इति ( त० दी० १) । अत्रायं नियमः
प्रथमं द्रव्यं निर्गुणमेवोत्पद्यते पश्चात्तत्समवेता गुणा उत्पद्यन्ते इति ।
उत्पन्न विनष्टे अव्याप्तिकथनं च बौद्धमतमनुसृत्य । तन्मते तदुत्पत्तिक्षण
एष तन्नाशस्वीकारात् । नैयायिकास्तु उत्पन्नविनष्टद्रव्यं न स्वीकुर्वन्ति ।
एतन्मते स्थितिक्षणेपि द्रव्यस्य सत्त्वस्वीकारात् इति । पाषाणादिभस्मनि
गन्धोपलम्मेन पाषाणादावपि गन्धोनुमीयते । तत्रत्यगन्धस्यानुस्कटत्वा-
नोपलम्भः इति ज्ञेयम् (मु० १ पृथि० पृ० ६४-६५ ) ( त० व०
·