2023-02-20 00:55:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोश: 1
५०
पूर्वाह्न: - १ पूर्वाह्नः प्रहरं सार्ध मध्याह्नः प्रहरं तथा । मातृतीया-
वापराह्नः सायाह्नव ततः परः । २ अहनि त्रिधा विभक्ते पूर्वो भागः
( मिताक्षरा अ० २ श्लो० ९७ ) ।
पृच्छा-[क] जिज्ञासाज्ञानोद्देश्यक प्रवृत्यधीनशब्दः । यथा गुरुं धर्मे
पृच्छतीत्यादौ पृच्छतेरर्थः । अत्र पृच्छधात्वर्थघटके ज्ञाने गुरुवृत्तिस्वस्य
शब्दे च धर्मविषयकत्वस्यान्वयः । शब्दस्य च विषयता व्यापारानु-
बन्धिनी । ज्ञानस्य परंपरया शब्दरूपधास्वर्थविशेषणत्वात्तदाश्रयीभूत-
गुरोर्गौणकर्मता । धर्मस्य च धात्वर्थविषयतया प्रधानकर्मता इति ज्ञेयम्
( ग० व्यु० का० २ पृ० ४५ ४६ ) । [ ख ] अभिधानावच्छिन्न-
व्यापारः । यथा पान्थं पन्थानं पृच्छतीत्यत्र पृच्छधात्वर्थः पृच्छा ।
अभिधानमिहाभिलापः । तदनुकूलव्यापारश्च केन पथा गन्तव्यम् इत्या-
दिप्रश्नः । तथा च पान्थनिष्ठं यत् पथोभिधानम् तदनुकूलव्यापारवान्
इत्येवं तत्र बोध: ( श० प्र० लो० ७३ टी० पृ० ११२) ।
[ग] केचिच्छाब्दिकास्तु जिज्ञासा विषयकज्ञानानुकूलव्यापारः । स च
कथं धर्म आचरितव्यः इत्यभिलापादिः । यथा पृच्छयते शिष्येण
गुरुर्धर्ममित्यादौ पृच्छेरर्थः इत्याहुः ( वाच० ) । अस्य द्विकर्मकत्वेन
गौणे कर्मणि गुरौ लकारादिः । अत्र ज्ञानविषयत्वेन धर्मस्य तज्ज्ञाना-
श्रयत्वाच्च गुरोः कर्मत्वम् इति ज्ञेयम् । [ घ ] प्रश्नः इति काव्यज्ञा आहुः ।
पृथक्त्वम् - १ असाहित्यम् । यथा दुनोति चन्द्रात्पृथगप्यनङ्गः इत्यादौ
पृथक्त्वमसाहित्यम् ( ग० व्यु० का० ५ पृ० ११० ) । २ ( गुणः )
[क] अपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यम् अनेकद्रव्यं च ।
तस्य च नित्यानित्यत्वनिष्पत्तिः संख्यावज्ज्ञेया ( प्रशस्त ० पृ० १६ ) ।
[ ख ] पृथग्व्यवहारासाधारणकारणम् पृथक्त्वत्वज: तिमत् वा ( त० सं० )
( त० कौ० ) । यथा इदमस्मात्पृथक् इत्यादौ । पृथग्व्यवहारच
अयमस्मात् पृथक् इति व्यवहारः । तादृशव्यवहारजनकतावच्छेदकमुख्य-
प्रकारतावस्वं लक्षणम् इति ( वाक्य ० १ पृ० ८ ) । विस्तरस्तु
अन्यन्त्र (बै० उ० ७।२।२ ) द्रष्टव्यः । अत्र सूत्रम् तथा पृथक्त्वम्
-