2023-02-20 00:55:45 by ambuda-bot
This page has not been fully proofread.
म्यायकोशः ।
पूर्वस्वम् - १ प्रागभांबवत्वम् ( ग० सार्व० पक्ष० पृ० ३८ ) । यथा
कारणस्य कार्योत्पत्तिपूर्वक्षणवृत्तित्वम् इत्यादौ क्षणस्य पूर्वत्वम् । यथा
वा फाल्गुनस्य मासस्य चैत्रात्पूर्वत्वम् । अत्र पूर्वस्वं चाद्यस्वमिति लौकिक-
जना बदन्ति । २ उदयगिरिसंनिहितदेशावच्छिन्नत्वम् । यथा पूर्वो
प्रामादित्यत्र । अत्र पूर्वपदार्थैकदेशे तादृशसंनिहितस्वे प्रामाद्यबधिकत्वं
-पञ्चम्या बोध्यते ( श० प्र० श्लो० ९३ टी० पृ० १२७ ) । ३ क्रिया-
जन्यसंयोगप्रतियोगिदेशत्वम् यथा । मुंबईतो झळकीग्रामं गच्छत
उत्तरोत्तरदेशमपेक्ष्य पूर्वपूर्वदेशस्य पूर्वस्वम् ।
पूर्वपक्ष: - १ [ क ] शास्त्रीय संशयनिरासार्थप्रश्नरूपा फक्किका । [ख ]
सिद्धान्तविरुद्धकोटिः । [ ग] अधिकरणावयव विशेषः । अत्रोक्तम् विषयो
विशयश्चैव पूर्वपक्षस्तथोत्तरम् इति । २ प्रतिज्ञापरपर्यायः भाषापत्ररूपः प्रथ-
मावयवः पूर्वपक्षः । अयं चाभियोग इत्युच्यते (फिर्याद इति प्र० ) । अत्रोक्तं
बृहस्पतिना पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरस्तथा । क्रियापादस्तृतीयस्तु
चतुर्थो निर्णयस्तथा ॥ इति ( वीरमित्रो० अ० २ लेख्य० १०६०) ।
-
पूर्ववत् - (अनुमानम् ) १ यत्र कारणेन कार्यमनुमीयते । यथा मेघोन्नत्या
भविष्यति वृष्टिरिति ( वात्स्या० ११९१५) ( गौ० १० १११।५ ) ।
अत्रार्थे पूर्ववत् इत्यत्र पूर्वे कारणम् तद्वत्तल्लिङ्गकम् इति व्युत्पत्तिर्दृष्टव्या
( गौ० वृ० १/१/५) । २ यत्र यथापूर्व प्रत्यक्षभूतयोरन्यतरदर्शनेना-
न्यतरस्या प्रत्यक्षस्यानुमानम् । यथा धूमेनाग्निरिति (वात्स्या० ११११५ ) ।
अत्र सांख्यानामयमर्थ: । दृष्टस्वलक्षणसामान्यविषयं यत् तत् पूर्ववत् ।
पूर्व प्रसिद्धं दृष्टस्वलक्षणसामान्यमिति यावत् । तदस्य विषयत्वेनास्त्य-
नुमानज्ञानस्येति पूर्ववत् । यथा धूमाद्वहित्वसामान्य विशेषः पर्वतेनुमीयते ।
तस्य च वह्नित्वसामान्यविशेषस्य स्वलक्षणवह्निविशेषो दृष्टो रसवत्याम्
( सांख्य० कौ० का० ५ टी० पृ० १०) । ३ केवलान्वयि । यथा
अमिधेयं प्रमेयत्वादित्यादि ( गौ० वृ० १।१५) । अत्रार्थे पूर्ववत् इत्यत्र
पूर्वमन्वयष्याप्तिः तद्वत् इति व्युत्पत्तिर्दृष्टव्या ( गौ० वृ० १।११५ ) ।