This page has not been fully proofread.

न्यायकोशः ।
 
पुर्यष्टकम् – १ स्वारपुर्यष्टकमन्तःकरणं धीकर्म करणानि (सर्व० सं०
पृ० १८४ शै० ) । २ शब्द: स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् ।
बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम् ॥ ( सर्व० पृ० १८५ रौ० ) ।
पुष्करम् – अमा सोमे तथा भौमे गुरुबारे यदा भवेत् । तत्तीर्थे पुष्करं
नाम सूर्यपर्वशताधिकम् ॥ (पु० चि० पृ० ३१७)।
 
पुस्तम् – लिप्यादिशिल्प कर्मयुतं वस्तु । यथा पुराणपुस्तकम् इत्यादि ।
किंच मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा । लोहरमैः कृतं वापि
पुस्तमित्यभिधीयते ॥
 
पूगः - भिन्नजातीनां भिन्नवृत्तीनामेकस्थाननिवासिनां समूहः । यथा प्राम-
नगरादयः ( मिताक्षरा अ० २ श्लो० ३० )।
 
पूजा-[क] आराधना । [ख] उपासना ।
 
पूरकः – ( प्राणायामः ) बाह्यस्य वायोरन्तर्धारणम् ( सर्व० सं० १०
३७७ पात ० ) ।
 
पूर्णा – पित्र्येस्तमयबेलायां स्पृष्टा पूर्णा निगद्यते ( पुरु० चि० पृ० ४०) ।
-
पूर्णिमा – कलाक्षये व्यतिक्रान्ते दिवा पूर्णौ परस्परम् । चन्द्रादित्यौ पराद्धे
तु पूर्णत्वात्पूर्णिमा स्मृता ॥ (पुरु० चि० पृ० ३१७ ) ।
पूर्वकालीनत्वम् – [क] कालिकसंबन्धेन तव्यागभाववत्वम् । इदं च
ध्वंसस्य ( जन्यमा त्रस्य ) कालोपाधित्वपक्ष एव संगच्छते इत्यवधेयम्
 
( ग० सार्व० पक्ष० पृ० ३८ ) । यथा अनुमित्यव्यवहितपूर्ववृत्ति-
सिद्धिभिन्नसियभावमात्रं पक्षता ( दीधि० २ पक्ष० पृ० २२७) इति
पक्षतायाः शरीरप्रविष्टे अनुमितिपूर्वकालीनध्वंसाप्रतियोगित्वरूपे अव्य
बहितस्वरूपे शरीरे ध्वंसस्य पूर्वकालीनत्वम् । [ख] मागभावकाल-
वृत्तित्वम् । यथा मुक्त्वा व्रजतीत्यत्र भोजने गमनप्रागभावावच्छिन्न-
कालवृत्तित्वम् । [ग] तदुत्पत्तिकालीनध्वंसप्रतियोगिकालवृत्तित्वं वा
( तर्का ० ४ पृ० ११ ) । यथा ज्येष्ठस्य पुरुषस्य कनिष्ठं पुरुषमपेक्ष्य
पूर्वकालीनस्वम् । इदं च प्रागभावानभ्युपगन्तृ मतेपि युज्यते इति बोध्यम्
( ग० सार्व० पक्ष० पृ० ३८ ) ।
 
६४ न्या. को●