This page has not been fully proofread.

न्यायकोशः ।
 
संगच्छते । अस्यावयविनाशायकल्पनेन लाघवं च इति ( नीड० १
पृ० १३ ) । घटादिकं सच्छिद्रमेष । अन्यथा तदन्तर्गलादेः पाको
न स्यात् । अतः एकदैव परमाण्वादिघटपर्यन्तेषु घटनाशं विना पाके-
नैव रूपाद्युत्पत्तिः इति ज्ञेयम् ( सि० च० १५० १६) ।
 
-
 
पिठरम् - कार्यकारणसमुदाय: (अवयवावयविसमुदायः) घटपटादिः । यथा
पिठरपाकवादिनो नैयायिकाः इत्यादौ ।
 
पिण्डीभाव: -[क] चूर्णादेर्धारणाकर्षणहेतुभूतो विलक्षणसंयोगः (न्या ०
बो० ० १ पृ० ६ ) ( नील० १ पृ० १४ ) । [ख ] फूटकारा दिहेतुक-
देशान्तर निर्गमप्रतिबन्धकोवयवानां संयोग विशेषः (वाक्य ० १ पृ०९ ) ।
यथा चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ( त० सं० ) इत्यादौ
पिण्डीभावः ।
 
पितृत्वम् - १ [ क ] श्राद्धोद्देश्यत्वम् । [ ख ] सपिण्डीकरणोत्तरश्राद्ध-
जन्यफलभागित्वम् (कृष्ण० ) । यथा श्राद्धादौ पितृपितामह प्रपितामहाः
शालङ्कायनगोत्रा: वसुरुद्रादित्यान्तर्गत प्रद्युम्नसंकर्षणवासुदेवा इत्यादौ ।
अत्रोक्तं याज्ञवल्क्येन वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति
मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ इति ( याज्ञ० स्मृ० अ० १
श्लो० २६८) । २ जनकपुंस्त्वम् । यथा चैत्रस्य पिता इत्यादौ
पितृत्वम् ( त० कौ० ) ( त० प्र० ख० ४ पृ० ५९ ) । एवम्
जनकस्त्रीत्वं मातृत्वम् इत्यादिकमूह्यम् ।
 
-
 
पीलु: - परमाणु: (वै० उ० ७।१।६) । यथा पीलुपाकवादिनो वैशेषिका:
इत्यादौ ।
 
पीलुपाकवादी - (वैशेषिक: ) पीलव: परमाणवः । त एव स्वताः
पच्यन्ते । तत्रैव पूर्वरूपनाशा प्रिमरूपायुत्पत्तिः । कारणगुणप्रक्रमेण चावय-
विनि रूपाद्युत्पद्यते इति यो मन्यते सः ( वै० उ० ७१११६ ) । यथा
कणादप्रधाना: पीलुपाकवादिनः । अधिकं च पाकशब्दे दृश्यम् । एत-
न्मते च परमाणुष्वेव पाकः न द्यणुकादौ । आमनिक्षिप्ते घटे श्याम-
घटनाशे परमाणुषु रूपान्तरोत्पत्तौ पुनर्ह्यणुकादिक्रमेण रक्तघटोत्पत्तिः ।