This page has not been fully proofread.

कारादिसंकेतिसं सव्यभिचार अप्राप्तकाल नदी वृद्धि इत्यादिपदं
पारिभाषिकम् ( ग० शक्ति० पृ० ३ ) ।
 
पारिभाषिकी संज्ञा - (रूढनाम) उभयावृत्तिधर्मावच्छिन्नसंकेतवती संज्ञा ।
यथा आकाशडित्यादिः । सा हि द्वितयावृत्तिनैव शब्दादिना रूपेण
तदाश्रयमभिधत्ते ( श० प्र० श्लो० २१ टी० पृ० २५ ) । केचित्त यत्रार्थे
यन्नामाधुनिकसंकेतवत् तदेव तत्र पारिभाषिकम् । यथा पित्रादिभिः
पुत्रादौ संकेतितं चैत्रादि । यथा वा शास्त्रकृद्भिः सिद्ध्यभावादौ संकेतितं
पक्षतादिपदम् इत्याहुः ( श० प्र० श्लो० २२ टी० पृ० २६ ) । अत्र
केचिदित्यस्य ये जात्यवच्छिन्नसंकेतवतामपि चैत्रादिपदानां पारिभाषिकत्व-
माहुः ते इत्यर्थः ।
 
पारिमाण्डल्यम्- अणुपरिमाणम् ( मु० १ साधर्म्य ० ) ( प्रशस्त ०
 
पृ० १५ ) ।
 
-
 
पार्थिव:- १ पृथिवीकारणकः । यथा शरीरमस्मदादीनां पार्थिवम् (त० सं० )
इत्यादौ । अत्रार्थे पृथिव्या विकारः पार्थिवः इति विग्रहो द्रष्टव्यः । २ राजा
इति काव्यज्ञा आहुः । अत्रार्थे पृथिव्या ईश्वरः पार्थिवः इति विग्रहो द्रष्टव्यः ।
पाश: - पाशश्चतुर्विधः मलकर्ममायारोषशक्तिभेदात् ( सर्व •
पृ० १८७ शै० ) ।
 
सं०
 
कार्यकारणसमुदायोपि
 
पापण्डी– वेदबाह्यागमविहितकर्मकारी ( पुरु० चि० पृ० २०५ ) ।
पिठरपाकवादी - ( नैयायिकः )
घटपटादिः
पच्यते न तु केवलं परमाणव एव पच्यन्ते इति यो मन्यते सः
( वै० उ० ७/११६) । यथा गौतमप्रधाना नैयायिकाः पिठरपाक-
बादिनः । एतन्मते च पूर्वघटनाशं विनैवावयविन्यवयवेषु परमाणुपर्यन्तेषु
च पाकेनैव युगपद्रूपान्तरायुत्पत्तिः इति ( त० दी० १ पृ० १३)।
अतिशयवेगवता तेजसा परमाणूनामभिघातसंयोगेपि तस्य नियमत
आरम्भकसंयोगप्रतिद्वन्द्विविभागजनक क्रियाजनकत्वे मानाभावेन अवयवि-
व्यपि पाकवीकार उचितः । अत एव सोयं घटः इति प्रयभिज्ञा