This page has not been fully proofread.

पातकम् ---[क] पातिव्रजन कदुरदृष्टप्रयोजकक्रियाविशेषः । यथा गोवा-
मणवधादि पातकम् । अत्र महापातकाम्युच्यन्ते
 
सुरापास्तेयं
 
शुनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ इति
( मनु० अ० ११ को० ५५) । उपपातकानि तु गोषधोयांव्यसंया-
ज्यपारदार्यात्मविक्रयाः । गुरुमातृपितृत्यागः स्वाभ्यायाम्योः सुतस्य च ॥
इत्यादि ( मनु० अ० ११ लो० ५९ ६६ ) । [ख] पापजनकं कर्म ।
पातालम् – एकषष्यधिकशतत्रयपरिमिता संख्या ( अतलशब्दे दृश्यम् ) ।
पानम् – १ द्रवद्रव्यस्य गलाधः संयोजनम् । यथा पानीयं पातुमिच्छामि
स्वत्तः कमललोचने इत्यादौ । २ रक्षणम् । यथा पाहि मां भवसागरात्
इत्यादौ । ३ निःश्वासः ( वाच० ) ।
 
-
 
पापम् - १ ( गुण: ) वेदैकप्रतिपायोनिष्टसाधनमदृष्टविशेषः । अधिकं तु
अधर्मशब्देनुसंधेयम् । २ सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः
( सर्व० सं० पृ० ८७ आई० ) ।
 
पारद: - संसारस्य परं पारं दत्तेसौ पारदः स्मृतः ( सर्व० सं० १०
२०२ रसेश्व० ) ।
 
-
 
पारमार्थिकत्वम् – १ प्रमाविषयत्वम् । यथा घटपटादीनां पारमार्थिकत्वम् ।
-१ ।
२ [क] कालत्रयसंबन्धित्वम् । [ख] केचिद्वेदान्तिनस्तु त्रिकाला-
बाध्यत्वम् । यथा ब्रह्मणस्तत्सत्तायाश्च पारमार्थिकत्वम् इत्याहुः । अत्रेदं
ज्ञेयम् । अपारमार्थिकत्वं तु पारमार्थिकत्वाभाव एव । यथा खपुष्प-
शशशृङ्गकूर्मरोमवन्ध्यापुत्रादीनामपारमार्थिकत्वम् इति । ३ निःश्रेयस-
साधनत्वम् इति कर्मज्ञा आहुः । ४ स्वाभाविकत्वम् इति काव्यज्ञा आहुः ।
पारिणामिकः – कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः
( सर्व० सं० पृ० ६९ आई० ) ।
 
पारिभाषिकम् – ( शब्दः ) आधुनिकसंकेतेनार्थबोधकं पदम् । यथा
 
१ अयाज्येति पदच्छेदः ।