This page has not been fully proofread.

अक्षरम् -१ पर प्रति मायावादिन आहुः । २ मोक्ष इत्वपीति वेदान्तिनः ।
३ लक्ष्मीरपीति माध्याः । ४ भगवदंशभूतो भगवद्पो धामविशेष इति
मीयाः । ५ अकारादयो वर्णा इति काव्यज्ञाः । ६ वर्णस्मारकरेखात्म-
कलिपिसंनिवेश इति लेखकाः ।
 
-
 
अखण्डोपाघि: ~ (उपाधिः) अनिर्वचनीयो धर्मः । स च कृतसप्तपदार्था-
तिरिक्त एव ( सि० च० ) ( उ० ब० ) । यथा अनुयोगितात्वप्रति-
योगितात्वविषयतात्वादिः ।
 
अभि: -तृतीया । ( पु० चि० पृ० ३७ )
 
अभिदैवत्यम् -- कृत्तिका । ( पु० चि० पृ० ३५३ )
अग्निहोत्रहवणी - निर्वापसाधनं काष्ठपात्रम् ।
 
अपटकत्वम् -[क] स्वाविषयकप्रतीतिवृत्तितत्तनिरूपितविषयिताकत्वम् ।
( ग० कूटा० )
 
[ख] तद्विषयत्वाव्यापकविषयतावत्त्वम् । यथा वहथमावनिष्ठविषयत्वा-
व्यापकं घटनिष्ठं विषयत्वं तद्वत्वस्य घटे सत्वेन घटस्य वह्नयभा-
बाघटकत्वम् । वस्तु तद्धटकत्वम् ।
 
अङ्गम् - १
 
प्रयोजकम् उपकारकं वा । यथा व्याप्तिरनुमित्यङ्गमित्यादौ
( सर्वद० पू० ८ चार्वा० ) । २ यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेङ्गमिति
शाब्दिकाः । ३ मुख्यफलाजैनकत्वे सति मुख्यफलजनकव्यापारजनकमङ्ग-
मिति मीमांसकाः । ४ लम्नमिति मौहूर्तिकाः । ५ शरीरावयमोऽङ्गमिति
काव्यज्ञा बुदन्ति ।
 
१ बत्रायं नियमो बोडोपाभ्यतिरिकानामेव धर्माणा निर्बंचनाई-
समिति ।
 
अत्र व कार्यकातित्वेनैव कारणत्वस्य मीमांसकैः स्वीकृतलात्प्रयाबादिहोम-
पूर्णत्व अनकन मुफ प्राचनकवलुपपद्यत इति ।