This page has not been fully proofread.

F
 
न्यायकोचर।
 
प्रक्षेपाथनुस्फोटनपर्यन्तस्तत्तत्क्रियाकलापः
 
। यदाह दुर्ग: । कियत इति
 
क्रिया । सा च पूर्वापरीभूतावयवैव इति ( श० प्र० श्लो० १०५ टी०
पृ० १६३ ) । सच पाकः स्थालीमार्जनाधःसंतापनाथोदनपरीक्षान्तो
व्यापारसमूहः इति ( वाच० ) । [घ ] विलियनुकूलव्यापारः पाकः
इति शाब्दिका आहुः । विक्लित्तिः इति मण्डनाचार्य आह । २ रसा-
स्वादप्रभेदः : पाकः इत्यालंकारिका आहुः ( प्रतापरु० ) । ३ व्यक्ती-
करणम् । शिष्टं तु पचधात्वर्थे द्रष्टव्यम् ।
 
पाठः – कण्ठताल्वाद्यभिघातः । यथा यजमानं मस्रं पाठयतीत्यादौ धात्वर्थः
( ग० व्यु० का० २ पृ० ४७ ) । पाठस्य चतुर्दश दोषा यथा ।
शङ्कितं भीतमुद्धष्टमव्यक्तमनुनासिकम् । विस्वरं विरसं चैव विश्लिष्टं
विसमाहतम् ॥ काकस्वरं निरसितं तथा स्थान विवर्जितम् । व्याकुलं
तालहीनं च पाठदोषाश्चतुर्दश ॥ इति ( वाच० ) । अध्ययनक्रमो यथा
आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो
गुरोर्मुखम् ॥ इति । अध्यापनक्रमो यथा । अधीष्व भो इति ब्रूयाद्विरामो-
स्त्विति चारमेत् ( कूर्मपु० उ० अ० १३ ) ( वाच० ) । अत्राधिकं
च द्वितीया कर्मत्वम् इत्यादिशब्देषु संपादितम् तत्र दृश्यम् ।
पाणिनिः– पाणिनिनामकः प्रसिद्धो मुनि विशेषः । स च व्याकरणशास्त्रे
अष्टाध्यायीरूपसूत्रपाठम् गणपाठम् धातुपाठम् लिङ्गानुशासनम् शिक्ष
चेति ग्रन्थपञ्चकं चकार । अत्रोच्यते । येनाक्षरसमाम्नायमधिगम्य
महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ इति ।
व्याकरणशास्त्रप्रयोजनं तु निःश्रेयसम् इति । पाणिनिमतं च सर्वदर्श-
नसंग्रहमहाभाष्य कैयटादौ प्रतिपादितम् इति । अत्र प्रयोजनं द्विविधम् ।
मुख्यम् गौणं च । तत्र मुख्यं निःश्रेयसम् । गौणं तु रक्षोहागमलव-
संदेहाः प्रयोजनम् इति महाभाष्योक्तं ( पृ० १ ) द्रष्टव्यम् ।
 
तु
 
पातः
 
१ पतनम् । यथा दृष्टिपात: बाणपात: सूत्रपातः इत्यादि ।
२ ज्योतिर्विदस्तु र विभिन्नग्रहाणां दक्षिणोत्तराकर्षक: अदृश्यरूपः काल-
मूर्तिरूप: भचक्रस्थितो जीव विशेषः इत्याहुः (सू० सि० ) ( वाच० ) ।
 
६३ न्या० को●
 
-