This page has not been fully proofread.

URE
 
व्यायकोशः ।
 
तेजसा परमाणुनामभिधातेपि तस्य नियमत आरम्भक संयोगप्रतिद्-
न्द्रिविभाग जनक क्रियाजनकत्वे मानाभावेन अवयविन्यपि पाकस्वीकार
उचितः । अत एव सोयं घटः इति प्रत्यभिज्ञा संगच्छते । अन्त्या-
.
 

 
: वयविनाशाद्यकल्पनेन लाघवं च इति ( नील० १ १० १३ ) ।
' द्रव्यादेः पाकप्रकारभेदादिकं पाकराजेश्वरे उक्तम् । यथा भर्जनं तलनं
स्वेदः पचनं कथनं तथा । तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥
तत्र भर्जनं केवळपात्रे । तलनं स्नेहद्रव्ये । स्वेदनमभ्युत्तापे । पचनं
जले कथनं सिद्धद्रव्यरसग्रहणे । तान्दूरं द्वारबद्धतप्तयने । पुटपाक
ऊर्ध्वाधोग्नितापे ज्ञेय इति ( वाच० ) । [ ख ] रूपादिपरावृत्तिजनक-
(
तेजः संयोगः । यथा तण्डुलं पचतीत्यादौ पच्यर्थ: पाकः । अत्र अव
यविन्यपि पाकाङ्गीकर्तृनैयायिकमते तण्डुलं पचतीत्यादौ पचधात्वर्थघटके
रूपादिपरावृत्यात्मकफले तण्डुलादिवृत्तित्वान्वयः । ओदनं पचतीत्यादौ
तु ओदनादिपदस्य तनिष्पादकतण्डुलादौ लक्षणा । अवयविनि पाकान-
भ्युपगमे वैशेषिकमते तु तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य तदारम्भक-
परमाणुषु लक्षणा ( ग० व्यु० का० २ १० ४३ ) । अत्र वैयाकरण-
मते विशेषः । अनेन विक्केदनाया उत्पत्त्यनुकूलव्यापारस्य चेति व्यापार-
द्वयस्य वचनाद्विकर्मकत्वम् । तण्डुलानोदनं पचतीत्यस्य तण्डुलान्
विक्केदयन् ओदनं निष्पादयति इत्यर्थः । दुहादित्वेन गौणे कर्मणि
लकारे च तण्डुला ओदनं पच्यन्ते इति ( वाच० ) । अधिकं तु दोहन-
शब्दे द्रष्टव्यम् । [ग] रूपादिपरावृत्तिफलकतेजः संयोगावच्छिन्नक्रिया ।
यथा तण्डुलं पचतीत्यत्र पचेरर्थः पाकः । अत्र पचधात्वर्थनिविष्टे च
निरुक्ते तेज:संयोगे तण्डुलस्याधेयत्वेनान्वयः । ओदनं पचतीत्यादौ तु
तण्डुलादावोदनादिपदस्य लक्षणा । तत्र क्रियायामन्वितमनुकूलत्वं द्विती-
यार्थः इत्यपि कश्चिदाह । परमाणुं पचति इत्यपि प्रयुज्यत एव । अत
एव स्वतन्त्राः परमाणवः पच्यन्ते इति किरणावल्यामाचार्या आहुः (श
प्र० श्लो० ७२ टी० पृ० ९४ ) । अत्रेदमवधेयम् । चुल्लीस्थाल्यारोपणा-
दिकं हि न प्रत्येकं पाकपदार्थ: । किंतु स्थाल्यारोपणाग्निनिवेशनतुष-
O