2023-02-20 00:55:42 by ambuda-bot
This page has not been fully proofread.
४९५
4
प्रक्रमेण चावयविनिं रूपायुत्पद्यते इति पीछुपाकवादिनः वैशेषिका :
आहुः । अत्रेदं तस्वम् । आमपाके निक्षिप्तस्य घटावेरामद्रष्यस्य
बहिना नोदनादभिघाताद्वा तदारम्भकेषु परमाणुषु द्रब्यारम्भकर्सयोम-
विरोधिविभागैनारम्भ कसंयोगनाशे द्रव्यनाशावश्यंभावः । दृश्यते हि
स्थास्यामाहितानां तण्डुलादीनामप्यषःसंतापनमात्रेण भर्जनात्तदानीमेव
नाशः । क्षीरनीरादीनां चात्यन्तमुल्बणता । तथा च आमपाके वहि
ज्वालाजालामिहतानां द्रव्याणामवस्थानम् इति महती प्रत्याशा ( ३०
उ० ७११।६ ) (त० कौ० ) । पार्थिवपरमाणुरूपादीनां पाक-
जोत्पत्तिविधानमित्थम् । घटादेरामद्रव्यस्याग्निना संबद्धस्याइयभिघातानो-
दनाद्वा तदारम्भ केष्वणुषु कर्माण्युत्पद्यन्ते । तेभ्यो विभागाः । विभागेभ्यो
द्रव्यारम्भकसंयोग विनाशा: । तद्विनाशेभ्यः कार्यद्रव्यं विनश्यति । तस्मि-
न्विनष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः । पुनरन्य-
स्मादग्निसंयोगादौष्ण्यापेक्षात्पाकजाः रूपादयो जायन्ते । तदनन्तरम् भो-
गिनामदृष्टापेक्षादात्मानुसंयोगादुत्पन्नपाक जेष्वणुषु कर्मोत्पत्तौ तेषां परस्पर-
संयोगाद्व्यणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणपूर्वक्रमेण
रूपाद्युत्पत्तिः । न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा संभवति ।
अपि तु परमाणुष्वेव । सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याय-
भावात् । अनुप्रवेशादपि च व्याप्तिर्न संभवति । कार्यद्रव्यविनाशात्
इति ( प्रशस्त ० पृ० १३) । पाकोपि रूपादेरसमवायिकारणं
भवति । तत्र च परमाणावेव पाकादूपादिपरावृत्तिः नावयविनि इति
पीलुपाकवादिन आहुः । पीलुपाकवादिमते विजातीयाग्निसंयोगादारम्भ-
कसंयोगनासेन द्यणुकपर्यन्तावयविनाशे सति परमाणौ रक्तायुत्पत्तिः ।
ततो विजातीयाग्निसंयोगादारम्भ कसंयोगानुगुणक्रियाद्युत्पत्यारम्भकसंयो-
गादिप्रक्रमेण पुनर्धणुकादिमहावयविपर्यन्तानामुत्पत्तिर्भवतीति । पिठर-
पाकवादिमते तु अवयविनां सच्छिद्रतया विजातीयाग्निसंयोगात्ते-
घामपि रूपादिपरावृत्तिर्भवति । न तु तत्रात्रयविनां नाशः । प्रत्यभिज्ञा-
विरोधात् इत्याहुः (बै० वि० ७१११६ पृ० २८७-२८९)।