This page has not been fully proofread.

***
 
1
 
सहस्राक्ष भिवर्षपरमोषितैः ॥ एष धर्मो महाञ्च्छुक महामुणफलोदय:
इति ( भार० बाश्व० अ० ९९ ) । अपरं च पिष्टमानीयतामन पश्वर्थ-
मिति भाषते । ऋषय ऊचुः । बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।'
अजसंहानि बीजानि छागं नो हन्तुमर्हथ ॥ नैष धर्मः सतां देवाः कथं
बध्येत वै पशुः इत्यादि ( भार० शान्ति० मोक्षधर्मे ० ) । अन्यत्र वेद-
मुक्तम् । इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । पुराणभृषिमिर्जुष्टं
वेदेषु परिनिष्ठितम् ॥ प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः
इत्यादिना काम्ये कर्मणि प्रत्यक्षं मांसमुक्त्वा निष्कामकर्मणीदमुच्यते य
इच्छेत्पुरुषोत्यन्तमात्मानं निरुपद्रवम् । स वर्जयेत मांसानि प्राणिनामिह
सर्वशः । श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः । येनायजम्त
यज्वानः पुण्यश्लोकपरायणाः ॥ ऋषिभिः संशयं पृष्टो वसुवेदिपतिः
पुरा इत्यादि ( भार० शान्ति० दानधर्मे ) ।
 
पाकः – १ [ क] विजातीयतेजः संयोगः ( त० भा० ) ( त० दी० )
( न्या० बी० ) । रूपादिपरावृत्तिफलको विजातीयतेजःसंयोगः इत्यर्थः
( दि० गु० ) ( वै० वि० ७ १ १६ १० २८७ ) । यथा आमनिक्षिप्ते
घटे श्यामरूपादिपरावृत्तिफलकोग्मिसंयोगः । अत्रोच्यते । स च संयोगो
नानाजातीयः । तथाहि रूपजनको विजातीयतेजः संयोगः । तदपेक्षया
रसजनको विजातीयः । एवं गन्धजनकोपि । एवं स्पर्शजनकोपि तथा ।
एवंप्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः
( न्या० बो० १ पृ० ५ ) । गदाधरभट्टाचार्याश्चाः । रूपरसगन्ध-
स्पर्शानां नाशं प्रति तु एकजातीय एवाग्निसंयोगः कारणम् इति
स्पर्शनाशकाले रूपनाश आवश्यकः इति ( ग० चतुर्द० लक्ष० १
पृ० १२) । इदं चात्र बोध्यम् । कारणगुणपूर्वकाः पृथिव्यां पाकजाः
(६० ७।१।६) । पाकजा इति । रूपरसगन्धस्पर्शा इत्यर्थः । इदानीं
प्रसङ्गापाकजप्रक्रिया चित्यते । तत्र कार्यकारणसमुदाय एवं पश्यत
इति पिठरपाकवादिनो नैयायिका: आहुः । पीलवः परमाणष एव
स्वतघ्राः पच्यन्ते । तत्रैव पूर्वरूपनाशामिमरूपायुत्पत्तिः । कारणगुण-
+