This page has not been fully proofread.

सहान्वयस्तदा प्रसज्यप्रतिषेधः । व्यस्तस्य तु नञः क्रिययैवाम्वयात्प्रसन्य-
प्रतिषेध एवेत्याहुः । तदुक्तम् । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन
नञ् । प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् ॥ इति ।
वर्षत् – चत्वारो ब्राह्मणा वेदशास्त्रधर्मज्ञाः पर्षत् ( मिताक्षरा अ० १।९ ) ।
पललम् - तिलपिष्टम् (पु० चि० पृ० ३०७)।
 
पशुः -१ [ क ] पशुस्वसंबन्धी पशुः । सोपि द्विविधः साजनो निरञ्जन-
वेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु तद्रहितः ( सर्व ०
पृ० १६८ नकु० ) । [ ख ] अनणुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा
पशु: ( सर्व० सं० पृ० १८० शैव० ) । पाशुपतशास्त्रज्ञास्तु सर्व-
जीवानां पशुत्वं मन्यन्ते । २ लोमवल्लाङ्गूलवान् ( श० प्र० श्लो० १००
टी० ) । यथा पशुना रुद्रं यजते इत्यादौ मायावादिमते छागादीनां
पशुत्वम् । अत्र मध्वाचार्यमतानुयायिनो वैष्णवाः समुत्तिष्ठन्ते । नायं
साक्षात्पशुर्यज्ञादौ विहितः । अपि तु पिष्टात्मक विद्रव्यमेव तत्र विहि-
तम् । पिष्टपशोरेव श्रुतिस्मृतिपुराणादौ निर्वपणप्रतिपादनात् । साक्षात्प
श्वालम्भनं तु काम्यमेष । तत्र श्येनादिषन्नरकाद्य निष्टान्तरस्यापि श्रवणात्
इति । अत्र श्रुतिः प्रमाणम् । पुरुषं वै देवाः पशुमालभन्त इत्यादिना
पुरुषादिभ्यो मेषोत्क्रमणमुक्त्वा त एत उत्कान्तमेधा अमेध्याः पशव-
स्तस्मादेतेषां नाभीयात्तमस्यामन्वगच्छत्सोनुगतो व्रीहिरभवत्तद्यत्पशौ पुरो-
डाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमस दिति
समेघेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद
इति ( ऋ० ब्राह्म० २ ख० ८) । तदाहु: यदेष हविरेव यत्पशुः
( ऋ० ब्राह्म० २ ख० ११ ) इति च । स्मृतिरपि कुर्याद्धृतपशुं सने
कुर्यात्पिष्टपशुं तथा । न त्वेष तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥
इति ( मनु० अ० ५ श्लो० ३७ ) । महाभारतमपि न हि यज्ञे
पशुगणा विधिदृष्टाः पुरंदर । धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो ॥
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते । आगमेनैव ते यज्ञं कुर्वन्तु
यदि चेच्छसि ॥ विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत् । यज बीजै: