This page has not been fully proofread.

४९२
 
न्यायकोचः ।
 
मानयेत्यत्र पर्युदासे पूर्वपदे नञ्युत्तरपदार्थसंबन्धिनि क्षत्रिये लक्षणा ।
अघटः पट इत्यादौ पर्युदासार्थे नञ्यपि सामानाधिकरण्यादभाववलक्षणा ।
ब्यासेपि न घटः पट इत्यादौ तथैव । यथा शुक्लपट इत्यत्र शुक्लषल्लक्षणा ।
न पचतीत्यादौ क्रियासंबन्धे भूतले न घट इत्यादौ च प्रसज्यप्रतिषेधे तु
नञो मुख्यार्थता । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यत्र
पर्युदासे नञ् । तेनायमर्थः नानुयाजेषु अनुयाजव्यतिरिक्तेषु यजतिषु ये
यजामहे इति मन्त्रं करोति इति ( चि० ४ ) । अत्रेदं बोध्यम् । नव-
जलधरः संनद्धोयं न दृप्तनिशाचरः इत्यादौ तत्पुरुषसमासे गुणीभावे
नञः पर्युदासतया निषेधस्य विधेयतानवगमः । जुगोपात्मानमत्रस्तो
भेजे धर्ममनातुरः । अगृभुराददे सोर्थानसक्तः सुखमन्यभूत् ॥ इत्यादौ
अत्रस्तादितामनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुण-
भावो युक्तः इति । [ ख ] फलप्रत्यवायशून्यतया समभिष्याहृतपदार्थ-
भेदः । यथा रात्रौ श्राद्धं न कुर्वीत इत्यादौ नञर्थः पर्युदासः । तथाहि
रात्रौ श्राद्धं न कुर्वीत इत्यादौ रात्रौ श्राद्धे न फलम् न वा प्रत्यवायः इति
रात्रिः पर्युदस्ता तद्भिन्ना दिनावस्था नना बोध्यते इति । अत्र मीमांसकाः ।
पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् । प्रतिषेधः स विज्ञेयो यत्रोत्तर-
पदेन नञ् ॥ ( मी० न्या० पृ० ६२ ) । अयमर्थः । उत्तरपदं
प्रत्ययः । तदन्यत्पूर्वपदम् । तत्र यदा प्रत्ययार्थभावनया सह नञः
संबन्धस्तदा प्रतिषेधः । यदा तु प्रत्ययार्थभावनाव्यतिरिक्तेन धात्वर्थेन
वा पदार्थेन सह नञः संबन्धस्तदा पर्युदासः । आयोदाहरणम् न
कलशं भक्षयेत् इति । अत्र हि लिङर्थप्रवर्तनया सह नञः संबन्धः ।
नञश्चैष स्वभावो यत्स्वसंबन्धि प्रतिपक्षबोधकत्वम् । तदत्र प्रवर्तनाप्रति-
पक्षभूतां निवर्तनां प्रतिपादयति । तथा च कलझकर्मकभक्षणनिवर्तनेति
बोधः । द्वितीयोदाहरणं तु नेक्षेतोद्यन्तमादित्यमिति । अत्र हि धात्वर्थेन
सह नञः संबन्धः । तथा च नञीक्षतिभ्यामीक्षणविरोधी नेक्षे इत्य-
नीक्षणसंकल्पः प्रतिपाद्यते । वैयाकरणास्तु समासघटकस्य नञो यदो-
तरपदार्थेन सहान्वयस्तदा पर्युदासः । यदा च तादृशस्यैव नञः क्रियया
 
-