2023-02-20 00:55:42 by ambuda-bot
This page has not been fully proofread.
पर्याप्तिः -( संबन्धः ) अयमेको घटः अयमेको घटः इमौ श्री इत्यादि
प्रतीतिसाक्षिकः खरूपसंबन्धविशेषः । यथा घटपटयो रूपगन्धावित्यादौ
द्वित्वपर्याप्तिः ( ग० व्यु० का० १ ) ( दीधि० अवच्छे०
० निरु०
प० १) । तदर्थश्च अयमेको घटः अयमेको घटः इति नानैक-
त्वाबगाहिन्या अपेक्षाबुद्ध्या जन्यः इमौ द्वौ इत्याकारकप्रतीतिप्रमाणकः
स्विस्वरूपसंबन्ध विशेष: । द्वित्र एव पर्याप्तिसंबन्धता स्वीक्रियते इति
(कृष्ण०) । अत्रायमर्थः । द्वित्वत्रित्वादिकं पर्याप्तिसंबन्धेन द्वित्र्यादिष्वेव
वर्तते न प्रत्येकस्मिन् । समवायेन तु प्रत्येकवृत्ति । प्रत्येकावृत्तेः समुदा
यावृत्तित्वम् इति नियमस्तु समवायादिनैव न पर्याप्तिसंबन्धेन इति
बोध्यम् । पर्याप्तिसंबन्धश्च विशिष्टबुद्धिनियामकः संबन्धः । समवा-
येन गुणे गुणस्यासखेपि चत्वारो गुणाः इति प्रतीत्या गुणादिषु
संख्या दिसत्त्वनियामकोपि तादृशः संबन्धः इति जगदीश आह
( वाच० ) । पर्याप्तिर्द्विविधा । अर्धपर्याप्तिः पूर्णपर्याप्तिश्च । तत्र प्रथमा
यत्राधिकस्य निरासार्थ या पर्याप्तिर्निवेश्यते सा अर्धपर्याप्तिः । यथा
पर्वतो वह्निमान् धूमादित्यादौ साध्यतावच्छेदकब हित्वनिष्ठा पर्याप्तिः ।
तथाहि । साध्याभावबदवृत्तित्वादिरूपे व्याप्यलक्षणे साध्याभावपदेन
साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रतियोगिताकाभावः पर्वतपक्षकवहि-
साध्यकघूमहेतु कस्थले महानसीयवह्नय भाववारणाय विवक्षणीयः । एवमपि
संबन्धादिभेदेनावच्छेदकता भेदान्महानसीयवह्नयभावप्रतियोगिता निरूपित-
समवायसंबन्धावच्छिन्नावच्छेदकतापर्याप्तेः साध्यतावच्छेदकबहिस्वेपि
'सत्वेन तद्वारणासंभवः । अतः साध्यतावच्छेदक पर्याप्तावच्छेदकता-
केल्यनेन साध्यतावच्छेदक निष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वम्
इति विषक्षणीयम् । तेन महानसीयस्वरूपाधिकधर्मव्युदासः इति ।
द्वितीया तु यत्र च न्यूननिवारणार्थी या पर्याप्तिर्निवेश्यते सा पूर्णपर्याप्तिः ।
यथा पर्वतो महानसीयवहिमानित्यादौ साध्यतावच्छेद की भूतमहानसीयत्व-
विशिष्टवदित्वनिष्टा पर्याप्तिः । अत्रेदं बोध्यम् । पक्षतावच्छेदकावच्छिन्ने
साभ्यताष च्छेदकावच्छिन्न प्रकारता निरूपितप्रकारिताशाल्यनुमितिस्वब्यापक-