This page has not been fully proofread.

न्यायकोषः ।
 
परोपकारः स्वभिन्नस्य साधुवृत्तस्य हितसंपादनम् । यथा परोपकारः
पुण्याय पापाय परपीडनम् इत्यादौ । यथा वा परोपकाराय सत
विभूतयः इत्यादौ च ।
 
पर्यनिकरणम् –दर्भज्वालया त्रिः प्रदक्षिणीकरणम् ( जै० न्या० अ० ३
पा० ६ अधि० ७ )।
 
-
 
पर्यनुयोग: - दूषणार्थ जिज्ञासा । यथा एतेनास्यापि पर्यनुयोगस्यानव-
काश: ( दायभागः ) इत्यादौ ।
 
पर्यनुयोज्यः - निग्रहोपपत्त्या चोदनीयः ( वात्स्या० ५।२।२१ ) । निग्रह-
स्थानं प्राप्तोसि इत्यनुयोज्य: इति यावत् ।
पर्यनुयोज्योपेक्षणम् – (निप्रहस्थानम् ) [ क ] निग्रहस्थान प्राप्तस्यानि-
ग्रह: पर्यनुयोज्योपेक्षणम् ( गौ० ५/२/२१ ) । पर्यनुयोज्यो नाम निप्र
होपपत्त्या चोदनीयस्तस्योपेक्षणम् निग्रहस्थानं प्राप्तोसि इत्यननुयोगः ।
एतच्च कस्य पराजय इत्यनुयुक्तया परिषदा वचनीयम् । न खलु निग्रहं
प्राप्तः स्वकौपीनं विवृणुयादिति ( वात्स्या० ५।२।२१ ) । [ ख ]
निग्रहस्थानं प्राप्तवतो निग्रहस्थानानुद्भावनम् । अत्रेदं बोध्यम् । यत्र
त्वनेकनिग्रहस्थानपात एकतरोद्भावनम् तत्र न पर्यनुयोज्योपेक्षणम् ।
अवसरे निग्रहस्थानोद्भावनत्वावच्छिन्नाभावस्यैव तत्त्वात् । ननु वादिना
कथमिदमुद्भाव्यम् । स्वकौपीन विवरणस्यायुक्तत्वात् इति चेत् सत्यम् । म-
ध्यस्थेनैवेदमुद्भाव्यम् । वादे च स्वयमुद्भावनेष्यदोषः (गौ० दृ० ५/२।२१) ।
[ग] उद्भावनाईपरकीय निग्रहस्थानानुद्भावनम् ( नील० पृ० ४६ ) ।
पर्यन्तत्वम् – तदवधिकविप्रकर्षशून्यत्वे सति तत्संनिकृष्टत्वम् । यथा नदीं
यावन्मम पुरम् इत्यादौ यावदर्थो मर्यादा । अत्र नदीपर्यन्तं मत्पुरम् इति
बोध: ( श० प्र० श्लो० ९३ टी० पृ० ११७) ।
 

 

 
-
 
पर्यवसितम् – १ पूर्वापरालोचनेनाषधारितोर्थः ( वाच ० ) । यथा इति पर्य-
वसितो वायुः इत्यादौ (मु० १ वायु० पृ० ८५ ) । अत्र पर्यवसानं
च तत्तदर्याबधारणम् शेषावधिश्व इति ( वाच० ) । २ निष्कृष्टार्थः ।
६२ न्या० को०