2023-02-20 00:55:41 by ambuda-bot
This page has not been fully proofread.
०
लौकिकपरीक्षकाणां यस्मिन्नर्ये बुद्धिसाम्यम् स दृष्टान्तः (गौ० १११।२५ )
इत्यादौ गौतमकणादौ मुनी परीक्षकौ । [ख ] शास्त्र परिशीलनप्राप्त-
बुद्धिप्रकर्षः ( प्रतिपादकः ) ( गौ० वृ० ११११२५) । व्यवहारादौ
दिव्यमेदपरीक्षाकारकः परीक्षकः इति व्यवहारशास्त्रज्ञा आहुः (वाच० ) ।
परीक्षा - १ [ क ] लक्षितस्य यथालक्षणमुपपद्यते न वा इति प्रमाणैर-
बधारणम् । इयं च शास्त्रस्य प्रवृत्तिः (वात्स्या० १ । १ । २ ) ( त० कौ० ) ।
प्रमाणादीनां षोडशानां पदार्थानां तखज्ञानार्थ परीक्षा कर्तव्या (त०
भा० पृ० १ ) । [ख ] यथावलक्षितस्यैतलक्षणमुपपद्यते न वा
इति विचारः ( त० भा० पृ० १ ) । [ग] उद्देशलक्षणयोरुपपत्यनु-
पपत्त्यन्यतरफलको विचारः ( त० कौ० पृ० २१ ) । [ प ] लक्ष-
णस्य सदसद्विचार: ( प्र० प्र० ) । यथा पृथिव्या गन्धबत्वमुपपद्यते न
वा इति विचारः । २ प्रमाणतर्काभ्यां वस्तुतत्वावधारणम् ।
परोक्षत्वम् - १ साक्षात्कार मित्रज्ञानत्त्रम् ( चि० १ ) ( म० प्र० १ )
( ग० शक्ति० टी० पृ० ११७ ) । यथा अनुमित्यादीनां ज्ञानानां
परोक्षत्वम् । प्रत्यक्षज्ञानभिन्नज्ञानत्वम् इति तु वयं ब्रूमः । अत्रायं
सिद्धान्तः परोक्षज्ञानमनाहार्यमेव निश्चयश्च इति ( ग० हेत्वा० सामा० )
( सत्प्र० ) । अत्र अक्ष्णः परम् इति व्युत्पत्तिः । परोक्षे लिडिति
निपातनात्साधुत्वम् ( सि० कौ० पृ० ६९) २ परोक्षज्ञानविषयस्वम् ।
यथा पर्वतो वह्निमान् धूमादित्यादौ वः परोक्षत्वम् । ३ वक्तुः साक्षा-
स्काराविषयत्वम् (ग० व्यु० ल० पृ० १३९ ) । यथा बभूव
योगी किल कार्तवीर्यः ( रघु० स० ६ श्लो० ३८ ) इत्यादौ लिटोर्थः
परोक्षस्वम् । वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम् इति केचिदाहुः (ग०
ब्यु० ल० १० १२९) । शाब्दिकास्तु साक्षात्करोमि इत्येतादृश
विषयताशालिज्ञानाविषयत्वम् इत्याहुः । साक्षात्करोमि इत्येतस्प्रतीति-
साक्षिकलौकिक विषयत्वाभाववत्वम् इत्यर्थः । तेन पपाचेत्यादी प्रत्यक्ष-
विषयतासस्वेपि तादृश विलक्षण विषयत्वाभाववत्वमक्षुण्णम् इति न तदनु-
पपत्तिः इति (वै० सा० ८० लका० पृ० १२३-१२४ ) ।