2023-02-20 00:55:41 by ambuda-bot
This page has not been fully proofread.
न्यायकोष्ठः ।
स्तथा । मक्ष्यान्यञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ इति मनुषचने (ब० ५
लो० १८) पञ्चनस्त्रेष्विति निर्धारणसप्तम्या शल्लकादिपञ्चभिन्नपञ्चनखानां
भक्षणस्य प्रत्यवायहेतुत्वम् इत्यर्थे लृप्तत्वात् इति ( श० प्र० श्लो० १००
टी० पृ० १५९) । एवम् याजनाध्यापनप्रतिप्रहैर्ब्राह्मणो धनमर्जयेदिल्यादा-
बपि लिङ: परिसंख्यैषार्थः । तेनात्रापि याजनादिमिन्नैर्ब्राह्मणस्य धनार्जनं
प्रत्यवायहेतुः इति वाक्यार्थः । न कृष्याद्यैरनापन्नो ब्राह्मणो धनमर्जयेत्
इत्यादिवचनैरुपायान्तरेण विप्राणां धनार्जनस्य प्रत्यबायहेतुत्वस्य स्फुट-
स्वात् इति बोध्यम् (श० प्र० लो० १०० टी० पृ० १५९) । अत्राहुः ।
याजनाध्यापनप्रतिप्रर्ब्राह्मणो धनमर्जयेत् इत्यत्र नियमविधिरेव । तथाहि
यत्र कियायां विकल्पेन कारकान्वयः स नियमः । यथा धनार्जने
याजनप्रतिप्रहाम्यामेकस्यार्जनस्यासंभवादेकस्यां धनार्जनक्रियायां याजना-
दीनां मिलितानामन्वयस्यासंभाविततया विकल्पेनैवान्वयः । शशकादिमांस-
निर्मितस्यैकस्य पिण्डस्य संभवात् भक्षणक्रियायां मिलितानामन्वयसंभवः
इति परिसंख्येति भेदः इति ( त० प्र० ४ पृ० १०८ ) । शब्दशक्ति-
प्रकाशिकाकृतस्तु अत्र याजनाद्यैर्ब्राह्मणो धनमर्जयेदेव इति न नियम-
विधिः । याजना दिना धनानर्जने ब्राह्मणस्य प्रत्यवायाश्रुतेः इत्याहुः
( श० प्र० श्लो० १०० टी० पृ० १६०) । [ग] उभयोर्युगपत्प्राप्ता-
वितरव्यावृत्तिपरो विधिः । यथा पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव ।
शशकः शल्लकी गोधा खड़ी कूर्मोथ पञ्चमः ॥ ( लौ० मा० पृ० ४२ )
इति । परिसंख्या द्विविधा श्रौती लाक्षणिकी च । तत्राद्या अत्र
ह्येवावयन्ति ( श्रुतिः ) इति । तदर्थश्च अत्र प्रकृते अवयन्ति अष-
जानन्ति गायन्तीति यावत् ( लौ० भा० टी० पृ० ४२ ) । अत्रैव-
कारेण पवमानातिरिक्तस्तोत्रव्यावृत्तिरभिधीयते इति अस्याः परिसंख्यायाः
श्रौतीत्वम् इति विज्ञेयम् ( लौ० भा० पृ० ४१) । द्वितीया पञ्च पञ्चनखा
भक्या: इति ( लौ० भा० पृ० ४१ ) ( म० प्र० ४ पृ० ६२ ) ।
इदं हि वाक्यं पञ्चानां पञ्चनखानां सेधागोधादीनां च न भक्षण-
विधायकम् । तस्य रागतः प्राप्तत्वात् । नापि तेषां भक्षणनियम-
परम् । तेषां च तदितरपञ्चनखानां च भक्षणस्य युगपदपि रागतः
-