2023-02-20 00:55:41 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
परिषत् — जातिविशिष्टपुरुषोपप्रहेण वर्तमाना सभा ( न्या० वा० ११ १/१४
पृ० ७९ ) । धर्मज्ञास्तु दशावरा वा परिषद्यं धर्मे परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥ ( मनु० १२।११०)
इत्यादी इत्याहुः ।
०
परिसंख्या - (विधि: ) [ क ] सर्वत्र प्राप्तस्य कचिद्विधिः । तदुक्तं
भट्टपादैः । तत्र चान्यत्र च प्राप्तौ परिसंख्येति कीर्त्यते इति ( न्या०
म० ४ पृ० २८ ) । तदर्थश्च यत्रोद्देश्ये यस्य विधानम् तदन्यस्मिन्नपि
तत्संबन्धस्य तस्मिन्वा तदन्यसंबन्धस्य प्रवृत्तितः प्रसक्तौ इति । यथा
पञ्च पञ्चनखा भक्ष्याः इति । अत्र सर्वेषां पञ्चनखानां भक्षणे प्राप्ते
पञ्चैव पञ्चनखा भक्ष्याः न वन्ये इति विधीयते ( नियम्यते ) ( त० प्र० ४
पृ० १०८) (सि० च० पृ० ३३ ) । पञ्चपञ्चनखातिरिक्ताभक्षणं
विधीयते इति तात्पर्यम् । पञ्चनखास्तु शशक: शल्लकी गोधा खड्गी
कूर्मश्च पञ्चमः इति ( सि० च० पृ० ३३ ) ( त० प्र० ४ पृ० १०८) ।
केचिदत्रैवमाडुः । ऋतौ भार्यामुपेयादित्यत्रापि परिसंख्यैव । तत्र ऋतु-
काल एव भार्यागमनं विधीयते । ऋत्वतिरिक्तकाले भार्यागमनस्य निषेधात्
इति । वस्तुतस्तु तत्र ऋतुकाले भार्यागमनं कर्तव्यमेव इति बोधा-
नियमविधिरेव इति । अत्रायं भावः । ऋतावुपेयात्वां भार्यामन्यथा
भ्रूणहा भवेत् इत्यादिनिन्दार्थवादबलात् ऋतौ स्वदारगमनाद्यभाषस्य
दुरित हेतुत्वव्यवस्थिस्यैव तद्विधेर्नियमपरत्वं कल्यते इति ( श० प्र० को ०
१०० टी० पृ० १५९ ) । [ ख ] अन्ययोगव्यवच्छेदः । यथा पञ्च
पञ्चनखान् भुञ्जीतेत्यादौ लिङा परिसंख्या बोध्यते । अत्रत्यलिङा प्रत्यवा-
यहेतुत्वं प्रत्याय्यते । प्राथमिक पञ्चपदेन लक्षणया शशादिपञ्चभिन्नोर्थो
बोध्यते । सा परिसंख्या च पञ्चैव पञ्चनखान् भुजीत इत्याकारैव ।
तेन शशादिपश्चभिन्नानां पञ्चनखानां भोजनं प्रत्यवायहेतुः इत्येव तत्र
वाक्यार्थः । अत्र शशादिपञ्चविधान् पञ्चनखानेव भुजीत इत्याकारा
परिसंख्या न भवति । पञ्चनखभिन्नस्यौदनादेर्भोजनस्य निषिद्धले प्रमाणा-
भावात् इति । अत्रायं भावः । श्वाविधं शल्यकं गोधां खड्गकूर्मशशां-
•