This page has not been fully proofread.

४८४
 
न्यायकोशः ।
 
( काव्यप्र० उल्ला० ७) । अत्र गी: वाण एते उभे अपि पदे बचो
बाण इति परावर्तनं न क्षमेते इति तस्य तथात्वम् । अत्र गी: पदस्थाने
वच इति पदस्य बाणपदस्थाने च बवयोरभेदात् बाणपदस्य प्रक्षेपे
गीर्वाणपदादेवतार्थस्येव बचोबाणपदात्तादृशार्थाप्रतीतेः । प्रत्युत वाक्शर-
रूपार्थप्रतीतेश्व इति ।
 
परिवेचा-(परिवित्तिशब्दे दृश्यम् ) ।
 
परिशेष:- [क] प्रसक्तस्य प्रतिषेधेन्यत्राप्रसङ्गात्परिशिष्यमाणे संप्रत्ययः
( सि० च० ११० ९ ) । यथा परिशेषानुमानमित्यादौ । तथाहि ।
शब्दोष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति समवायिकारण-
कत्वात् यन्नैवम् तन्नैवम् यथा रूपम् इति परिशेषानुमानम् ( सि०
च० १ पृ० ९) । अत्र परिशेषपदार्थस्य समन्वयमित्थं वर्णयन्ति । प्रस-
तस्य अष्टद्रव्याश्रितत्वस्य प्रतिषेधे अभावे अन्यत्र द्रव्यादन्यत्र रूपादौ
अप्रसङ्गात् प्रात्यभावात् परिशिष्यमाणे आकाशे संप्रत्ययः शब्दस्य
संबन्धः इति । [ ख ] प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः । स
द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा चैत्रमैत्रयोरयं चैत्रः
इत्युक्ते अन्यस्मिन्मैत्रप्रमा । द्वितीयो यथा नायं चैत्रः इत्युक्ते तस्मिन्मैत्र-
प्रमा । इयमनुमानजन्या । अत्र प्रयोगः विमतो मैत्रः चैत्रमैत्रयो-
रन्यतरत्वे सति अचैत्रत्वात् व्यतिरेकेण चैत्रवत् इति ( प्र० च०
परि० १ पृ० ४४ ) ।
 

 
-
 
परिशेषानुमानम् - [क] तदितरविशेषाभाववत्त्वे सति सामान्यवस्वरूपो
हेतु: ( राम० १ मङ्गल० पृ० ५ ) । [ ख] विशेषाभावसहकृत-
सामान्यहेतुकानुमानम् । यथा अविगीतशिष्टाचारविषयत्वेन मङ्गलस्य
सफलवे सिद्धे मङ्गलं समाप्तिफलकं समायन्या फलकत्वे सति सफलत्वात्
इत्यनुमानम् ( राम० ) ( दि० १ मङ्गल० पृ० ४ ) । अत्र लक्षण-
समन्वयः क्रियते । तस्मात् समाप्तिरूपात्फलात् इतरो विशेषः स्वर्गादि-
रूपं फलम् तस्याभाववत्वे जनकतासंबन्धेन स्वर्गादिफलस्याभाबवत्त्वे
सति सामान्यवत्वम् फलवत्त्वम् इति ।