This page has not been fully proofread.

४८२
 
न्यायकोचः ।
 
तैरारब्धे कार्यद्रव्ये त्र्यणुकादिलक्षणे रूपायुत्पत्तिसमकालं महत्त्वं
दीर्घत्वं च करोति । बहुभिर्महद्भिरारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव
महत्त्वमारभन्ते न बहुत्वम् । समान संख्यैरारब्धेतिशयदर्शनात् । प्रचयस्तु
तूलपिण्डयोर्वर्तमानः पिण्डारम्भकप्रशिथिलसंयोगापेक्ष इतरेतरपिण्डा-
क्यवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि ।
समानसंख्या परिमाणैरारब्धेतिशयदर्शनात् । द्वित्वसंख्या चाण्वोर्वर्त-
माना व्यणुके अणुत्वमारभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्व-
समानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः । अणुष्ववत् द्यणुके द्वित्व-
संख्यातो ह्रस्वत्वस्योत्पत्तिः । एतच्चतुर्विधमपि परिमाणमुत्पद्य स्वाधारवि-
नाशादेव विनश्यति इति ( प्रशस्त० पृ० १६) । उपस्कारेप्युक्तम् ।
परिमाणं चतुर्विधम् । महत्वम् अणुत्वम् दीर्घत्वम् ह्रस्वत्वं च । तत्र पर-
ममहत्त्वपर मदीर्घत्वे विभुचतुष्टयवर्तिनी परमाणुत्वपरमहस्वत्त्रे परमाणुव
र्तिनी । अवान्तराणुत्वावान्तरहस्वत्वे द्यणुकवर्तिनी । त्रसरेणुभारभ्य महा-
वयविपर्यन्तमवान्तरमहत्त्वावान्तरदीर्घत्रे । एवं च सर्वाप्यपि द्रव्याणि
परिमाणद्वयवन्ति । बिल्वामलकादावणुत्वव्यवहारः समिदिक्षुदण्डादिषु
च हस्वस्वव्यवहारो भाक्तः । भक्तिश्चात्र प्रकर्षभावाभावः । आमलके यः
प्रकर्षभावस्तस्याभावः कुवले । बिल्वे यः प्रकर्षभावस्तस्याभाव आमलके ।
स च गौणमुरूयोभयभागित्वात् भक्तिपदवाच्यः । अत्र दीर्घस्वहस्वत्वे
नित्ये न वर्तेते इत्येके । परिमाणे एव ते न भवतः इत्यपरे । किंतु
अणुस्बमहत्त्वे द्वे एव परिमाणे न तु चतुर्धा इति सांख्या वेदान्तिन-
श्राडु: (वै० उ० ७१११८) । इदानीं परिमाणकारणानि परिसंचष्टे
कारणबहुत्वाच्च (बै० ७ १ १९ ) । तत्र कारणबहुत्वं केवलं त्र्यणुके
महत्त्वदीर्घले जनयति । महत्त्व प्रचययोस्त कारणे अभावात् । अत्रेदं
ज्ञेयम् । तञ्च बहुत्वं ईश्वरापेक्षाबुद्धिजन्यम् । तद्बुद्धेरनेकविषयत्वेप्यदृष्ट-
विशेषोपग्रहो नियामकः इति ( बै० उ० ७।१।९ ) । एवम् परमाणु-
द्वयगतं द्वित्वं द्यणुके परिमाणोत्पादकम् । द्वाभ्यां तम्तुभ्यामप्रचिताभ्या-
भारब्धे पढे केवलं महत्वमेवासमवायिकारणम् । बहुत्वप्रचययोस्तत्रा-
भावात् । यत्र व द्वाम्यां तूलकपिण्डाभ्यां तूलकपिण्डान्तरारम्भस्तत्र